________________
[अपहृति
ग्रंथभावे मन्येशब्दप्रयोगेऽपि नोत्प्रेक्षेत्यपि वक्ष्यते । एतस्मिन्नपि भेदेऽपह्नवारोपयोः पौर्वापर्यप्रयोगपर्यायभेदद्वयं स म्भवदपि न पूर्ववच्चित्रतामावहतीति न भेदत्वेन गणितम् । तत्रापह्नव पूर्वक आरोपे पूर्वमुदाहृतम् । आरोपपूर्वके त्वपह्नवे यथा
४८
w
अलङ्कारसूत्रं
"ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी - न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । हीपाद् द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्यच्छलेने ॥” इति । कचित् पुनरसत्यत्वं वस्त्वन्तररूपताभिधायिशब्दनिबन्धनम् । यथा -
“अमुष्मिल्लावण्यामृतसरसि नूनं मृगदृशः
स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः ।
विषयविषयिणोरेकस्मिन्नेव वाक्ये निर्देशो भवतीति भावः । वक्ष्यत इति । उत्प्रेक्षाद्योतक निरूपणसमये ' किन्तूत्प्रेक्षे' त्यादौ । अस्मिंस्तृतीये भेद एकवाक्यत्वलक्षणे वाक्यभेदविषयवद्भेदानिर्देशो वैचित्र्यविशेषाभावात्, न तु लक्ष्यादर्शनादित्याह – ए ( क त ) स्मिन्नपीत्यादिना । ज्योत्स्नेत्यादि । अत्र न्यस्तं सिद्धाञ्जनपरिमलमिति पूर्वं विषयी निर्दिष्टः । पश्चालान्छनस्य च्छलेनेति विषयोऽपहृतः । कचित् पुनरिति । अत्र पुनश्शब्देनैतद् दर्शयति अपह्नवो नामासत्यत्वप्रतिपादनम् । तच्च क्वचित् साक्षान्नञा निर्दिश्यते, क्वचिच्छलादिशब्देन पारमार्थ्यप्रतिक्षेपकेण प्रत्याय्यते क्वचिद वस्त्वन्तर रूपैताभिधायिभिरुपात्तरूपनिषेधाक्षेपकैर्वपुर्भङ्गिनामादिशब्दैरभिव्यज्यते । अमुष्मिन्नित्यादौ रोमावलिवपुर्धूमशिखेत्यत्र रोमावलीलक्षणस्य विषयस्यापवो वपुश्शब्दनिबन्धनः ॥
१. 'निरन्तरमु', २. 'न ॥ क्व' क. ख. पाठः. ३. 'पाभि' ख. ग. पाठ:
―
-