SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ निरूपणम् सग्याख्यालङ्कारसर्वस्वोपेतम् । द्वितीयो यथा"विकसदमरनारीनेत्रनीलाब्जषण्डा न्यधिवसति सदा यः संयमाधःकृतानि । न तु ललितकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः॥" तृतीयो यथा"उद्भ्रान्तोज्झितगेहगूर्जरवधूकम्पाकुलोच्चैःकुच प्रेखोलामलहारवल्लिविगलन्मुक्ताफलच्छद्मना । सार्धं त्वद्रिपुभिस्त्वदीययशसां शून्ये मरौ धावता ___ भ्रष्टं राजमृगाङ्क ! कुन्दमुकुलस्थूलैः श्रमाम्भःकणैः ॥" अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापह्नवोत्प्रेक्षा स्थापयिष्यते । “अहं त्विन्दुम्" इत्यादौ वाक्यभेदे साममण्डलं नेदमित्यपहृत्य पश्चात् तत्समानधर्मणः कामातपत्रस्यैवारोपः । विकसदिति । अत्राप्सरोनेत्रनीलोत्पलनिकरलक्षणं वस्त्वन्तरं विधाय पश्चात् ललितकलापस्य मयूरस्यापहवः । उद्धान्तेत्यादि । अत्रासत्यत्वप्रतिपादकेनच्छद्मशब्देन (द्रव्यव गूर्ज)रवधूहारमुक्ताफलापह्नवमनूद्य वर्णनीययशःसम्बन्धिनां श्रमाम्भःकणानामारोपो विधीयते । स्थापयिष्यत इति । उत्प्रेक्षाभेदनिरूपणावसरे 'क्वचिच्छलादिप्रयोग' इत्यादौ । मन्येशब्दप्रयोगात् सम्भावनं, छद्मशब्दप्रयोगाचापह्नवः । अत्र मुक्ताफलानि विषयः, श्रमाम्भःकणाः विषयिणः, कुन्दमुकुलस्थूलत्वं गुणो निमित्तम् । अत इयं निमित्तोपादानवती जातिस्वरूपोत्प्रेक्षा । पूर्वमसामञ्जस्येन दु. षिते 'यदेतदि'त्यादौ मन्येशब्दप्रयोगमात्रेणोत्प्रेक्षाध्मो न कर्तव्य इत्याह - अहं विन्दुमित्यादी वाक्यभेद इति । उत्प्रेक्षायां हि १. 'ल', २. 'रुचिरक' ग. पाठः. ३. 'न्दु मन्य इ' मूलपाठ:. ४. 'तिवा' क. ख. पाठः. ५. 'नैतदित्य' ग. पाठः. ६. 'शूरसम्ब' ख. पाठः. ७. 'क्षा न' ख. ग. पाठः. ८. 'व्येत्या' ख. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy