________________
४६
अलङ्कारसूत्रं
वपहृनुत्याख्योऽलङ्कारः । तस्य च त्रयी बन्धच्छाया पह्नवपूर्वक आरोपः । आरोपपूर्वकोऽपह्नवः । छलादिशब्दैरसत्यत्वप्रतिपादकैर्वापह्नवनिर्देशः । पूर्वकभेदद्वये वाक्यभेदः । तृतीयभेदे त्वेकवाक्यत्वम् । आद्यो यथा -
[ अपहृति
७
S
अ
“यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते
तदाचष्टे लोकः शश इति न तन्मां प्रति तथा । अहं विन्दुं मन्ये त्वदरिविरहक्लान्ततरुणीकटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम् ॥”
अत्र लैन्दवस्य शशस्यापह्नव उपक्षिप्ते शशकप्रतिवस्तुकिणव इन्दोरारोपो नान्वयघटनां पुष्यतीति न निरवद्यत्वम् । तत्तु यथा
“पूर्णेन्दोरतिपोषकान्तवपुषः स्फार प्रभाभासुरं नेद मण्डलमभ्युदेति गगनाभोगे जिगीषोर्जगत् । मारस्योच्छ्रितमातपत्रमधुना पाण्डु प्रदोषश्रिया मानोन्नद्धजनाभिमानदलनोद्योग कहेवाकिनः ॥”
विशेषलाभ इत्याह • आरोपप्रस्तावादित्यादि । त्रयीति । त्रयवयवा त्रिप्रकारेत्यर्थः । वाक्यभेद् इति । एकस्मिन् वाक्ये आरोपस्यापह्नवस्य च द्वयोर्विधातुमशक्यत्वात् । तृतीयभेदे छलादिशब्दप्रयोगवति । तत्रापह्नवमनूद्यारोपस्य विधानादेकवाक्यता । यदेतदित्यादि । अत्र शशलक्षणस्य विषयस्यापह्नवं न तन्मां प्रति तथेति प्रथमं विधाय पश्चात् किणस्य वस्त्वन्तरस्यारोपो विधीयते । शशकप्रतिवस्त्विति । शशसहशस्य किणस्यैवारोपो युक्त इति भावः । तत्त्विति । अपह्नयमानारोप्यमाणयोः सार्द्दश्येन निरवद्यम् । पूर्णेन्दोरित्यादि । अत्र प्रथमं चन्द्र
१. 'क्यार्थत्व', २. 'प्रकुरुते ' क. ख. पाठः ३ 'न्दोः परिपो' ग. पाठः. ४. 'रूप्येण नि' क. पाठः