________________
निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम्।
विषयापह्नवेऽपह्नुतिः ॥ २० ॥
वस्त्वन्तरप्रतीतिरित्येव । प्रक्रान्तानपह्नववैधम्र्येणेदमुच्यते। आरोपप्रस्तावादारोपविषयापहुतावारोप्यमाणप्रतीतानानेकधात्वोलेखस्य सम्भवात् । तत्र सप्तम्यामुदाहृतम् । षष्ठयां यथा
परदाराणामन्धो यदुनृप! शुद्धान्तयोषितां सुभगः ।
त्वं सहृदयः कवीनामप्राज्ञो दोषदर्शिनां चासि ॥ पञ्चम्यां यथा
सङ्गामधीरनृपतिर्भीरधर्मादभीरुराहवतः ।
शुश्रूषुर्निगमविदस्तद्वाह्यविदो भवत्यशुश्रूषुः ।। चतुर्थी यथा
प्रतिपन्नाय नृशंसः कारुणिकस्तिष्ठते विपन्नाय ।
अभ्यर्थिने वदान्यो वाग्ग्मी विदुषे च रविवर्मा ।। तृतीयायां यथा
कुवलयविकासविधिना राजा यदुनाथ ! तेजसा भास्वान् ।
त्वं विक्रमेण बलिजित् सर्वज्ञतया गिरीशश्च ।। द्वितीयायां यथा
बालिशमविशेषज्ञो नन्दयति विपश्चितं विशेषज्ञः ।
अपकारिणं कृतघ्नो यदुपतिरुपकारिणं कृतज्ञश्च । प्रथमायां यथा --
सख्या यदुपते! सन्तो गुरवः प्रश्रितेन च ।
नीतास्त्वया परा तृप्तिमास्तिकेन च देवताः ॥ विषयापह्नव इति । विषयग्रहणेन निश्चयगर्भनिश्चयान्तयोः विषय्यपह्नववतोः सन्देहयोावृत्तिः । अपह्नवोऽपलापः । विषयापहवसद्भावमात्रे नायमलकार इत्याह-वस्त्वन्तरप्रतीतिरिति । भ्रान्तिमत्सूत्रादनुवर्तत इति भावः । प्रक्रान्तेति । रूपकमारभ्य यावदुल्लेखं प्रक्रान्तविषयानपह्नववैधयॆण विरोधसम्बन्धादस्येह प्रस्तावः । इदमपह्नत्यलङ्करणम् । यद्यपि विषय इति वस्त्वन्तरेति च सामान्येन निर्दिष्टं, ताथपि प्रकरणाद्