________________
४४ अलङ्कारसूत्रं
[उलखएवं "गुरुवचसि पृथुरुरसि विशालो मनस्यर्जुनो यशसि" इत्यादाववसेयम् । इयांस्तु विशेषः -- पूर्वत्र ग्रहीतृभेदेनानेकधात्वोल्लेखः, इह तु विषयभेदेन । नन्वयं श्लेषोलङ्कारविषय इति कथमलङ्कारान्तरेमत्र स्थाप्यते । सत्यम् । अनेकधात्वनिमित्तं तु विच्छित्त्यन्तरमत्र दृश्यत इति तत्प्रतिभोत्पत्तिहेतुः श्लेषोऽप्यत्र स्याद् , न तु सर्वथा तदभावः। अतश्वालङ्कारान्तरं, यदेवंविधे विषये श्लेषाभावेऽपि विच्छित्त्यैन्तरसम्भवः। यथा- 'युधिष्ठिरः सत्यवचसि' इत्यादि । तस्मादेवमादावुल्लेख एव श्रेयान् । एवं कारकान्तरविच्छित्त्याश्रयणेनायमलङ्कारो निदर्शनीयः॥ वच्छेदपरतयारोपगर्भत्वम् । रूपभेदवद् नामभेदेनाप्युल्लेखो भवतीति प्रदर्शनायोदाहरणान्तरोपन्यासः - गुरुर्वचसीत्यादि । अत्र गुर्वादिशब्दप्रतिपादितानां गौरवादीनां बृहस्पतित्वादीनां च श्लेषमूलयातिशयोक्त्या भेदाध्यवसायेन वास्तवत्वमारोपितत्वं च द्रष्टव्यम् । विषयभेदेनेति । ग्रहीतृव्यतिरिक्ताधिकरणरूपविषयभेदेनेत्यर्थः । तत्प्रतिभा उल्लेखप्रतिभा । एवं च यद्यपि श्लेषस्यैवोन्मजनप्रसङ्गः, तथापि “कुपतिमपि कलत्रवल्लभमि"त्यादौ विरोधवदस्याँप्यङ्गीकरणीयत्वमिति भावः । अतश्चेति । वक्ष्यमाणादपि हेतोः। युधिष्ठिरः सत्यवचसीत्यादि । ननु कथमत्रोल्लेखता, युधिष्ठिरत्वादेर्वास्तवत्वाभावात् । अत्र केचिदाहुः - यदेवंविधे विषय इत्यादिग्रन्थकृतो गुरुर्वचसीत्यादिवचनभङ्गीषु श्लेषव्यतिरेकेणालङ्कारान्त(रं तत्स? रस)द्भावप्रदर्शन एव तात्पर्यम् । ततश्च यथा युधिष्ठिरः सत्यवचसीत्यादौ रूपकलक्षणविच्छित्त्यन्तरस्वीकारः, एवं गुरुर्वचसीत्यादावुलेखोऽपि स्वीकरणीय इति । एवं कारकान्तरविच्छित्येति । अत्र कारकग्रहणं विभक्तिमात्रस्योपलक्षणम् । अकारकविभक्तिष्वपि विषयभेदे
१. 'ष इ', २. 'रं स्था', ३. 'तिस', ४. 'वमलङ्कारान्त', ५. 'येणाय' क. ख. पाट:. ६. 'धस्या' ख. पाठः. ७. 'स्याङ्गी' क. पाठः. ८. 'राणां सद्भा', ९. 'कवि' ख. पाठः.