SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ निरूपणम् । सव्याख्यालझारसर्वस्वोपेतम् । स्यापूर्वस्ये भावात् । तहेतुकत्वाच्चास्यालङ्कारस्य । सङ्करप्रतीतिस्त्वङ्गीकृतैव । यद्येवमभेदे भेद इत्येवंरूपातिशयोक्तिरत्रास्तु । नैष दोषः । ग्रहीतृभेदाख्येन विषयविभागेना. नेकधात्वोट्टङ्कनात् , तेस्य च विच्छित्त्यन्तररूपत्वात् सर्वथा नास्यान्तर्भावः शक्यक्रिय इति निश्चयः। यथा वा"णाराअणो त्ति परिणअवहूहि सिरिवळ्ळहो त्ति तरुणीहिं। बाळाहिं उण कोऊहळेण एअमे अ सञ्चविओ॥" अतदेकरूपस्य तदेकरूपतया, अवयवधर्मस्य तपोवनत्वादेः समुदायधर्मतया वा प्रतीतेः प्रवर्तमानत्वात् । सङ्करप्रतीतिस्त्विति । 'तपोवनमिति मुनिभिरि'त्यादीनामेकैकशो निरूपणे भ्रान्तिमतः प्रादुर्भावः संहत्य निरूपणे पुनरेकस्यानेकधात्वोल्लेखनादुल्लेखस्येति पूर्ववत् सङ्करप्रतीत्यङ्गीकारः । यद्येवमभेद इत्यादि । यथा- 'मग्गिअळद्धम्मि' इत्यादावेकस्याधररसस्य 'अण्णण्णा' इत्यनेकधात्वस्फुरणादतिशयोक्तित्वम् । ग्रहीतृभेदाख्येनेति । ननु न खलु ग्रहीतृभेदः प्रयोजकः, 'गुरुर्वचसी'त्या. दावदर्शनात् । अतो विषयभेदमात्रं प्रयोजकत्वेनोदाहरणीयम् । तच्च मार्गितलब्धत्वादिरूपमतिशयोक्त्युदाहरणेऽपि विद्यते । तत्र ग्रन्थकृतैवोक्तं'विषयविभागाद् भेदोपनिबन्ध' इति । तत् कथमेतत् । अत्र केचिदाहुःतत्रान्येऽन्य इति रसस्य भेदमानं निर्दिष्टं, न तु तत्तद्रूपोपादानेन । इह तु तपोवनादिरूपविशेषोपादानेनेत्यदोष इति । अन्ये तु रसभेदविषयभूतानां मार्गितलब्धत्वादीनामेकस्यैवाधररसस्य विशेषणतयोपसर्जनीकृतत्वात् तत्र विषयभेदो न स्फुट इत्याहुः । नारायणेत्यादि । नारायण इति परिणतवधूभिः श्रीवल्लभ इति तरुणीभिः । बालाभिः पुनः कौतूहलेनैवमेव दृष्टः ।। अत्र परिणतवधूनां रुचिः, तरुणीनां 'स्त्रियः कामितकामिन्य' इति न्यायेनार्थित्वं, बालानां तावन्मात्रस्यैव ज्ञाना, व्युत्पत्तिः । अत्र नामान्तरव्य १. 'स्या' ग. पाठः, २. 'ग्रहीतृभेदस्य', ३. 'था-मा', ४. 'एमे' क. ख. पाठः. ५. 'गदथेऽपि' स. पाठ.. ६, 'द्युत्प' ख. ग. पाठः'
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy