________________
४३
___ अलहारसूत्रं
[उल्लेख"यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, सङ्गीतशालेति लासकैः” इत्यादि श्रीकण्ठांख्यजनपदवर्णने । अत्र ह्येक एव श्रीकण्ठेजनपदस्तत्तद्गुणयोगात् तपोवनाद्यनेकरूपतया निरूपितः । रुच्यर्थित्वव्युत्पत्तयश्चात्र प्रायशः समस्ता व्यस्ता वा योजयितुं शक्यन्ते । नन्वतन्मध्ये "वज्रपञ्जरमिति शरणागतैरसुरविवरमिति वादिकैः” इत्यादौ रूपकानुप्रवेशात् कथमयमुल्लेखालङ्कारविषयः । सत्यम् । अस्ति तावत् “तपोवनम्” इत्यादौ रूपविविक्तोऽस्य विषयः । यत्र वस्तुतस्तद्रूपतायाः सम्भवः, यत्र तु रूपकं स्थितं, तत्र चेदियमपि भङ्गिः सम्भविनी, तत् सङ्करोऽस्तु । नैतावतास्याभावः शक्यते वक्तुम् । ततश्च न दोषः कश्चित् । एवं तर्हि तत्रं विषये भ्रान्तिमदलङ्कारोऽस्तु । अतद्रूपस्य तद्रूपताप्रतीतिनिबन्धनत्वात् । नैतत् । अनेकधाग्रहणाख्यस्यातिशयप्रधानतया व्यामिश्रणेन विमर्शनम् । तत्तद्गुणयोगादिति । तपोवनादिनिष्ठविविक्तत्वरमणीयत्वादिगुणयोगात् । समस्ता व्यस्ता वेति । तपोवनादौ प्रत्येकं मुनिप्रभृतीनां रुच्यादित्रयमपि सम्भवतीति समस्तत्वम् । मुनीनां रुचिर्वेश्यानामर्थित्वं लासकानां व्युत्पत्तिरिति व्यवस्थया व्यस्तत्वम् । यत्र वस्तुत इति । ननु यदि श्रीकण्ठस्य तपोवनादिरूपं वास्तवं, तर्हि कथमुल्लेखस्यारोपगर्भत्वम् । उच्यते । मुनिप्रभृतिभिरन्ययोगव्यवच्छेदेन श्रीकण्ठस्तपोवनादिरूपतया प्रतीयते । तच्च रूपान्तरस्यापि विद्यमानत्वादारोपणीयमेव । अथवा तपोवनादीनां नियतदेशवर्तित्वेऽपि भूयस्त्वविवक्षया सकल एव श्रीकण्ठस्तपोवनादितया व्यपदिश्यत इत्यारोपो द्रष्टव्यः । सङ्करोऽस्त्विति । एकवाचकानुप्रवेशलक्षणः । तत्र विषय इति । उल्लेखविषये तपोवनमित्यादौ । अतद्रूपस्ये त्यादि ।
१. 'टज', २. 'ठस्त', ३. 'योऽत्र', ४. 'दिरूपकालकारयोग इति क', ५. 'कालधारवि', ६. 'च', ५. 'द्विष' क. ख. पाठः. ८. 'कर' ख. ग. पाठः.