________________
निरूपणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
1
" दामोदरकराघातचूर्णिताशेषवक्षसा । दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥” सादृश्यहेतुकापि भ्रान्तिर्विच्छित्त्यर्थं कविप्रतिभोत्थापितैव गृह्यते । यथोदा॑हृत । न स्वरसोत्थापिता शुक्तिकारजतवैत् । एवं स्थाणुवी स्यात् पुरुषो वेति संशयेऽपि बोद्धव्यम् ॥ एकस्यापि निमित्तवशादनेकध ग्रहण उल्लेखः ॥ १९ ॥ यत्रैकं वस्त्वनेकधा गृह्यते सं रूपबाहुल्योल्लेखनादुल्लेखः । न चानिमित्तमुल्लेख मात्रम्, अपितु नानाविधधर्मयोगित्वाख्यनिमित्तवशादेतत् क्रियते । तत्र च रुच्यर्थित्वव्युत्पत्तयो यथासम्भवं प्रयोजिकाः । तदुक्त
“यथारुचि यथार्थित्वं यथाव्युत्पत्तिभिद्यते । आभासोऽप्यर्थ एकस्मिन्ननुसन्धान साधितः ॥” इति । उदाहरणं
मर्मेत्यादिना । विच्छित्त्यर्थमिति । अलङ्कारजन्या शोभा विच्छित्तिः । पूर्वं 'कविप्रतिभोत्थापिते सन्देह' इति सूचितमर्थं प्रसङ्गेन विशदयति-एवमित्यादिना ॥
एकस्येत्यादि । अनेकधा अनेकप्रकारम् । तच्च प्रकारानेकत्वं रूपनानात्वेन विषयनानात्वेन च भवति । रूपनानात्वं च सर्वत्रैकरूपम् । विषयनानात्वं कारकवैचित्र्येण विचित्रम् । रूपबाहुल्यो लेखनादित्यनेनोल्लेखं निर्वक्ति । न चानिमित्तमित्यादिना सूत्रस्थं निमित्तवशादित्येतत् पदं व्याचष्टे । रुच्यर्थित्वेति । रुचिः सार्वकालिकीच्छा । अर्थित्वं तात्का:लिक्यपेक्षा । यथासम्भवमित्यनेन रुच्यादीनां यौगपद्यानियमं दर्शयति । थारुचीत्यादि । एकस्मिन्नप्यर्थ आभासो ज्ञानमनुसन्धान साधितः सन् रुच्यादिवशात् भिद्यत इत्यर्थः । अनुसन्धानं नाम बहूनां विशेषाणां गुण
१२
―
४१
१. 'स्थापितं न' ग. पाठः. २. 'तं' क पाठ:. ३. 'वत् । स्था', ४. 'वा
स्यादिति', ५. 'यो', ६. 'व्यः', ७. 'स्य नि' क. ख. ९..' 'स्व', १०. 'योग प्र', ११. 'य' क. स्व. पाठः.
पाठः ८. 'धात्वग्र' ग. पाठः. १२. 'र्थः । तच' ख. ग. पाठ