________________
अलङ्कारसूत्रं
[भ्रान्तिमद्
केचित्तु अध्यवसायात्मकत्वे नेमं सन्देहप्रकारमाहुः । अन्ये तु नुशब्दस्य सम्भावना द्योतकत्वं मत्योत्प्रेक्षा प्रकार मेममाचक्षते ॥
४०
सादृश्याद् वस्त्वन्तरप्रतीति श्रीतिमान् ॥ १८ ॥ असम्यग्ज्ञानत्वसाधर्म्यात सन्देहानन्तरमस्य लक्षणम् । भ्रान्तिश्चित्तधर्मो विद्यते यस्मिन् भणितिप्रकारे स भ्रान्तिमान् । सादृश्यप्रयुक्ता च भ्रान्तिरस्य विषयः । यथा-"ओष्ठे बिम्बफलाशयालमल केषूत्पाकजम्बूधिया
कर्णालङ्कृतिभाजि दाडिमफलभ्रान्त्या च शोणे मणौ । निष्पत्यास कृदुत्पलच्छददृशामात्तक्लमानां मरौ
राजन् ! गूर्जर। जपञ्जरशुकैः सद्यस्तृषा मूर्च्छितम् ॥” गाढमप्रहारादिकृर्ती तु भ्रान्तिर्नास्यालङ्कारस्य विषयः ।
यथा
आदिशब्देन नमनस्थगनपूरणसंहरणानि गृह्यन्ते, तर्वादीत्यादिशब्देन गगनधरित्रीककुभः । अत्र व्याप्नुवत् तिमिरं विषयः । रञ्जनादिर्धर्मो विषयी । केचित्वित्यादि । अत्र तिमिरकर्तृकस्य तरुशैलादिव्यापनस्य वि षयत्वमङ्गीकृत्य तस्य च रञ्जनादिना विषयिणा निगीर्णत्वादत्राध्यवसायत । तिमिरस्य विषयत्वे तूभयोरप्युक्तेरारोपत्वम् । अन्ये त्विति । तिमिरं विषयः रञ्जनादिक्रिया विषयी व्यापनं क्रियारूपं निमित्तं गम्यते । अतो गम्यमानक्रियानिमित्ता क्रियास्वरूपोत्प्रेक्षेयम् ॥
वस्त्वन्तरप्रतीतिरिति । वस्त्वन्तरानुभवः । अनेन स्मरणव्यावृत्तिः । चित्तधर्म इति । सकलवृत्तिज्ञानानां चित्तवृत्तिधर्मविशेषत्वात् । सादृश्यप्रयुक्ता च भ्रान्तिरिति भ्रान्तेर्विशेषणस्य व्यावर्त्यं दर्शयति — गाढ
पाठः.
१.
'श्रयसेन स', २. 'यादुत्रे', ३. 'य', ४. 'ता भ्रा' क. ख. ५. 'प्रा' ख. पाठः ६ 'ता । विषयस्य तिमिरत्वे' क. पाठः.