________________
निरूपणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
३९
निश्चयगर्भो यः संशयोपक्रमो निश्चयमध्यः संशयान्तः ।
यथा
"अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति पुरः समालोक्याज त्वां विदधति विकल्पान् प्रतिभटाः ॥ " निश्चयान्तो यत्र संशयोपक्रमो निश्रये पर्यवसानम् । यथा
-
"इन्दुः किं क कलङ्कः
सरसिजमेतत् किमम्बु कुत्र गतम् ।
ललितसविलासवचनै
मुखमिति हरिणाक्षि ! निश्चितं परतः ॥” क्वचिदारोप्यमाणानां भिन्नाश्रयत्वेऽपि दृश्यते । यथा -
Ach
" रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री
संहृता नु ककुभस्तिमिरेण ॥ " अत्रारोपविषये तिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितम् ।
निराकरोति । संशय एवेत्येवकारेण निश्चयगन्धमपि निवर्तयति । अयमित्यादि । अयं मार्तण्डः किमिति संशयः । खलु तुरंगैः सप्तभिरित इत्येकतरकोटिभेदक धर्मिनिर्देशाद् यद्यपि भेदः समुन्मिषति, तथापि वर्णनीयस्यासाधारणधर्मानिर्देशादयमसावेवेत्यप्रतिपत्तेश्चान्ते सन्देह एवावतिष्ठते । एतच्च विकल्पान् विदधतीत्यनेन कविनैव दर्शितम् । इन्दुः किमित्यादि । पूर्वार्धे सन्देहः । उत्तरार्धे निर्णयः । रागादि रञ्जनादि ।
१. 'र्म' क. पाठः. २, 'त्यपि प्र'ख. पाठ: •