________________
[सन्देह
“अथ पक्रिमतामुपेयिवद्भिः सरसैर्वक्रपथाश्रितैर्वचोभिः 1 क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरङ्गमाद्यैः ॥” अत्र राजसङ्घटने उपायनमुचितम् । तच्चात्र वचोरूपमिति वचसां व्यधिकरणोपायनरूपत्वेन परिणामः ॥
३८
अलङ्कारसूत्र
विषयस्य सन्दिह्यमानत्वे सन्देहः ॥ १७ ॥ अभेदप्राधान्ये आरोप इत्येव । विषयः प्रकृतोऽर्थः, यद्भित्तित्वेनाप्रकृतोऽर्थः सन्दिह्यते । अप्रकृतसन्देहे प्रकृतोऽपि सन्दिह्यत एव । तेन प्रकृताप्रकृतगतत्वेन कविप्रतिभोत्थापिते सन्देहे सन्देहालङ्कारः । स च त्रिविधः । शुद्धो निश्वयगर्भो निश्चयान्तश्च । शुद्धो यत्र संशय एव पर्यवसानम् ।
1
यथा
"किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा मञ्जरी वेला प्रोच्चलितस्य किं लहरिका लावण्यवारांनिधेः । उद्गाढोत्कलिकावतां स्वसमयोपन्यासविस्रम्भिणः
किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः || ” इत्यर्थः । तर्हि समासोक्तिपरिणामयोः को भेद इत्यत्राह केवलमिति । पक्रिमतां पचेलिमत्वम् । राजसङ्घटन इत्यादिना प्रकृतोपयोगित्वं दर्शयति ॥
--
इत्येवेति । अनुवर्तत इत्यर्थः । विषयस्येत्यनेनारोपस्य विषयो निर्दिश्यते, न सन्देहस्येत्याह - विषयः प्रकृतोऽर्थ इति । यद्भित्तित्वेन यदाश्रयत्वेन । अप्रकृत इन्द्रादिर्विषयी । प्रकृतोऽपीति । सन्देहस्य कोटिद्वयाधिष्ठानत्वात् । फलितं दर्शयति - तेनेति । प्रतिभोत्थापित इत्यनेन स्थाणुर्वा पुरुषो वेति स्वरसप्रवृत्तस्य सन्देहस्यालङ्कारत्वं 'सरभसोद्धि' क. ख. पाठः .
१. 'द्यैः ॥ रा', २. 'तः स', ३. 'स त्रि',
'च्छ' ग. पाठः