________________
निरूपणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् । अत्र सौमित्रिमैत्री प्रकृता आरोप्यमाणसमानाधिकरणातररूपत्वेन परिणता । आतरस्य भैत्रीरूपतया प्रकृत उपयोगात् । तत्र यथा समासोक्तावारोप्यमाणं प्रकृतोपयोगि तचारोपविषयात्मतयों स्थितम् । अत एव तत्र व्यवहारसमारोपैः, नतु रूपसमारोपः । एवमिहापि ज्ञेयम् । केवलं तत्र विषयस्यैव प्रयोगः । विषयिणो गम्यमानत्वात् । इह तु द्वयोरप्यभिधानं, तादात्म्यात् तु तयोः परिणामित्वम् । द्वितीयो यथा - अत्र सौमित्रिमैत्रीत्यादि । वर्णनीयत्वेन प्रस्तुता सौमित्रिमैत्री । प्रकृते उपयोगादिति । नौसाधने नदीतरणेऽपेक्षितत्वात् । अत्र चोदाहरणे मैत्रीमयमित्यत्र मयटः प्रयोग आरोपस्य दुर्घटत्वादयमिति विच्छिद्यायमसावित्यन्वयमिच्छन्ति को चेत् । एवंविधश्च निदेशः प्रायेणाव्यवहित एव दृश्यत इतीदं सर्वथा न निरवद्यम् । तत् तु यथा--
प्रतिभटविजयाय प्रस्थितस्याग्रयायी
प्रलयदहनरूक्षा यादवेन्द्र! प्रतापः । समजाने भुजशौथ वम खड्गः सहायः
सनिति विहरतस्ते साक्षिणी वीरलक्ष्मीः ।। अत्र प्रतापभुजशौर्यादयः समानाधिकरणाग्रयायिवादिरूपेण परिणमन्तः शत्रुविजयहेतौ समरकार्य उपयुज्यन्ते । रूपकात् परिणामस्य व्यावृत्तिं दर्शयितुं सम्प्रतिपन्नरूपकव्यावृत्या समासोक्त्या किञ्चित् साम्यमाह -तत्र यथेत्यादिना । तत्र आरोपमार्गे । आरोपमाणम् उपोढरागेणेत्यादौ नायकादि । प्रकृतोपयोगीति । मुखग्रहणादै नायकादेरेवौचित्यात् । आरोपविषयात्मतया निशाशश्याद्यात्मतया । अत एव तादात्म्यादेव । तत्र स. मासोक्तौ । एवमिहापीति । यथा समासोक्तौ विषयविषयितादात्म्येन रूपकाद् भेदः, एवमिह परिणामेऽपि रूपकाद् भेदो ज्ञातव्य
१. 'तदत्र', २. 'या तत्र सि', ३. 'पः, ए', ४. 'हव', ५,
'म' क.ख. पाठः.