________________
३४
[रूपक
अत्र क्ष्मासविद इति परम्परितमप्येकदेशविवर्ति । एवमादयोऽपि भेदाः लेशतः सूचिता एव । इदं च वैधर्म्येणापि यते । यथा "सौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण
अलङ्कारसूत्रं
ज्योत्स्ना कृष्ण चतुर्दशी सरलतायोगश्वपुच्छच्छटा । यैरेषा चे दुराशया कलियुगे राजावली सेविता
३
तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत् कौशलम् ॥” अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गसङ्ख्यत्वेऽपि क्वचित् इत्यादि । एतद् राजलक्ष्म्याः पर्यङ्क इत्यत्राप्युपलक्षणम् । एवमादयोऽपीति । यथा सावयवं समस्तवस्तुविषयैकदेशविवर्तित्वाभ्यां भिद्यते, तथा परम्परितमपि । तत्रैकदेशविवर्ति दर्शितम् । पौरुषाब्धेस्तरङ्गः खड्ग इत्यादी समस्त वस्तुविषयम् । श्लिष्टशब्दनिबन्धने वेकदेशविवर्तित्वमेव । तदुक्तं
1
“यद्वैकदेशवर्ति स्यात् पररूपेण रूपणात् "
इति । वैधर्म्येणापीति । पौरुषान्धेस्तरङ्गः खड्ग इत्यादौ श्यामत्वादिना मिथः सदृशखड्गतरङ्गसम्बन्धेन पौरुषान्ध्योः, महत्त्वादिना मिथः सदृशपौरुषाब्धिसम्बन्धेन खड्गतरङ्गयोश्च साधर्म्यम् । सौजन्याम्बुरुस्थली राजावलीत्यत्र हेयत्वेनोपादेयत्वेन च मिथः सदृशयोः मरुस्थली - राजावल्योः सौजन्याम्बुनोश्च परस्पर सम्बन्धाभावेन वैधर्म्यम् । एवं सुचरितालेख्येत्यादौ च । रूपकस्य वाक्य क्तादित्वे यथा
“यद्याकाङ्क्षसि वीक्षितुं गुणरुचे ! चेतः समस्तान् गुणान् कोलम्बाख्यमुपेहि दक्षिणदिशासीमन्तरत्नं पुरम् । आस्ते यत्र भुजेन कीर्तिशशिनः पूर्वाचलेनोद्वद्दन्नुर्वीमर्णवमेखलां यदुपतिः कल्पद्रुमो जङ्गमः || ” अत्र सीमन्तरत्नं पुरमिति वाक्योक्तम् । अर्णवमेखलामिति समासोक्तम् ।
-
१. 'यो भे' ख. पाठः · २. 'पि', ३. 'सेवा शू', ४. 'तेषां कि' क. ख. पाठ: ५. 'ख्यादौ' ख. पाठः.