________________
निरूपणम्) सव्याख्यालकारसर्वस्वोपेतम्। स्वतोऽसम्भवेत्सङ्ख्यायोगस्य विषयसङ्ख्यत्वं प्रत्येकमारोपात् । यथा - "क्वचिद् जटावल्कलावलम्बिनः कपिला दावाग्मय” इत्यादौ। नहि कपिलमुनेर्बहुत्वम् । "भ्रमिमरतिमलसहृदयतां
प्रलयं मूर्छा तमः शरीरसादम् । मरणं च जलदभुजगजं
प्रसह्य कुरुते विषं वियोगिनीनाम् ॥" इत्यत्र नियतसङ्ख्याककार्यविशेषोत्थापितगरलार्थप्रभावितो विषशब्दे श्लेष एव जलदभुजगजमिति रूपकसाधक इति कीर्तिशशिनः पूर्वाचलेनै भुजेनेत्युभयात्मकम् । कल्पद्रुमो जङ्गम इति विशिष्टम् । आरोप्यमाणस्य धर्मित्वादित्यादि । धर्मस्यारोपे निमीलितानि कुसुमानीत्यादौ विषयनिनत्वं भवत्येव । स्वतोऽसम्भवत्सङ्ख्यायोगस्य आरोपमन्तरेणासम्भवाद् विषयगतसङ्ख्याविशेषयोगस्य । अयमर्थः - यद्यपि रूपके विषयिणो लिङ्गनियमवत् सङ्ख्यानियमोऽपि प्राप्तः, तथापि प्रतिविषयमारोपितत्वेन भेदावसायादेकस्यैव विषयिणोऽनेकत्वं युज्यते । कपिला दावाग्नय इत्यत्र श्लेषदर्शनात् श्लेषविषयमेतदिति न मन्तव्यम् । त्वत्पादनखचन्द्राणामित्यादावश्लेषेऽपि दर्शनात् । समुदायारोपविवक्षायां तु विषयबहुत्वेऽपि विषयिण एकत्वमेव । यथा - 'प्राणास्तृणमिति । नहि कपिलमुनेरिति । स्वत इति शेषः । भ्रमिमित्यादि । जलदभुजगजं विषमित्यत्र श्लिष्टशब्द परम्परितशङ्काव्युदासाय श्लेषस्य रूपकनैरपेक्ष्यं रूपकस्य श्लेषसापेक्षत्वं चाह-- नियतसङ्ख्याकेति । गरलवर्तिभ्रम्यादिकार्यविशेषाष्टकेनैव विषशब्दस्य सलिलगरललक्षणोभयार्थाभिधायित्वप्रतीतिः, न तु जलदस्य भुजगत्वरूपणेनेति श्लेवस्य रूपकनैरपेक्ष्यं दर्शयितुं ? र्शितम् ।) रूपकसाधक इति । अन्यथोपमारूपकयोः
१. 'वा' क. ख पाठ:. २. 'नेत्यु' ख. ग. पाठः. ३. 'स', ४. 'त्याश्वि' ख. पाठः.