________________
- अलङ्कारसूत्र
रूपक गङ्गातरङ्गघनमाहिषदुग्धदिग्धं
जग्धं मया नरपते ! कलिकालकर्ण! ॥" "आभाति ते क्षितिभृतः क्षणदानिभेयं
निस्त्रिंशमांसलतमालवनान्तलेखा । इन्दुत्विषो युधि हठेन तवारिकीर्ती
रादोय यत्र रमते तरुणः प्रतापः ॥" क्षितिभृत इत्यत्र श्लिष्टशब्दपरम्परितम् । "किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं ___ वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ।
वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गतो ___दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥" अत्र वक्रेन्दुरूपणहेतुकं पीयूषस्याधरामृतेन श्लिष्टशब्देन रूपणम्। "विद्वन्मानसहंस! वैरिकमलासङ्कोचदीप्तधुते!
दुर्गामार्गणनीललोहित ! समित्स्वीकारवैश्वानर! । गङ्गातरङ्गयोर्गुणभावादवयवभूतयोश्च पत्रपात्रत्वेन माहिषदुग्धत्वेन च रूपितत्वादिदं समस्तवस्तुविषयं सावयवम् । आभातीत्यादि । अत्र निस्त्रिंशस्य तमालवनान्तलेखात्वेन, प्रतापस्य तरुणत्वेन (च) रूपर्ण शाब्दम् । कीर्तीनां नायिकात्वेन रूपणमार्थम् । अत इदमेकदेशविकर्ति । अत्रैव केक्लं श्लिष्टशब्दपरम्परितं दर्शयति -क्षितिभृत इति । अत्र निस्त्रिंशस्य तमालवनान्तलेखात्वेन रूपणनिमित्तं वर्णनीयस्य राज्ञः पर्व(ते ? तत्वे)न श्लिष्टशब्देन रूपणम् । श्लिष्टशब्देनेति । अमृतशब्दस्यो
१. 'रे' मूलपाठः. २. 'नी', ३. 'ति श्लिष्टप', ४. 'वा', ५. 'ब्दरू', क.
ख. पाठः.