________________
निरूपणम् ]
सब्याख्यालङ्कारसर्वस्वोपेतम् ।
३१
न्धनत्वेन द्विविधं सेत् प्रत्येकं केवलमालारूपत्वाच्चतुर्विधम् । तदेवमष्टौ रूपकभेदाः । अन्ये तु प्रत्येकं वाक्योक्तसमासोक्तादिभेदाः सम्भवन्ति । तेऽन्यतो द्रष्टव्याः । क्रमेण
यथा
-
"दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि ! नास्मि दूये । उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रै
यद् भिद्यते तव पदं ननु सा व्यथा मे ॥ " "पीयूषप्रसृतिर्नवा मखभुजां दात्रं तमोलूनये
स्वर्गङ्गाविमनस्कको कवदनस्रस्ता मृणालीलता । द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसामाशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुः ॥” "विस्तारशालिनि नभस्तलपचपात्रे
कुन्दोर्ज्वलप्रभभसञ्चयभूरिभक्तम् ।
विषयविषयिणोरेकशब्देन शब्दभेदेन चोपादानात् । यंत्र विषयविषयिणोर्व्यस्तत्वं तत्र वाक्योक्तं यत्र पुनस्तयोः समस्तत्वं तत्र समासोक्तम् । आदिशब्देनोभयात्मकादयो गृह्यन्ते । अन्यतः भोजादिग्रन्थे । " समस्तं व्यस्तमुभयं सविशेषणमित्यपि "
इत्यादिना निर्दिष्टाः । दास इत्यादि । अत्रैकस्यैव पुलकाङ्करस्यैकेनैव कण्टकेन रूपणाद् निरवयवत्वं केवलत्वं च । पुलकाङ्कुरेत्यत्र तु पुलको - द्गमस्याङ्करत्वेनाध्यवसायादतिशयोक्तिः । पीयूषेत्यादि । अत्रैकस्या एव प्रालेयभानुतनोः पीयूषप्रसृत्यादिभिर्बहुभिः सह रूपितत्वान्निरवयवत्वमालावे | विस्तारेत्यादि । अत्र भसञ्चयस्यावयविनो भक्तत्वेन नभस्तल
१. 'त', २ 'लं', ३. 'पकं च द्विविध', ४. 'दिप्रभे', ५. 'न्ति । अन्य', ६. 'गोदाहरणं – दा', 'वेदुचि', ८. ''क. ख. पाठ:. ९. 'वो' ग, पाठ:
७.