________________
[रूपक
अलङ्कारसूत्र
अभेदप्राधान्य आरोप आरोपविषयानपह्नवे
रूपकम् ॥ १५ ॥
अभेदस्य प्राधान्याद् भेदस्य वस्तुतः सद्भावः । आरोपोऽन्यत्रान्यावापः । विषयस्य विषय्यवष्टब्धत्वाद् विषयाvasuहुतिः । अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद् रूपकम् | साधर्म्य त्वनुगतमेव । यदाहुः - " उपमैव तिरोभूतभेदा रूपकमिष्यत" इति । अरोपादभेदेनाध्यवसायः प्रकृष्यत इति पश्चात् तन्मूलालङ्कारविभागः । इदं च निरवयवं सावयवं परम्परितं चेति प्रथमं त्रिविधम् । आद्यं केवलं मालारूपकं चेति द्विधा । द्वितीयं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विधैव । तृतीयं तु श्लिष्टाश्लिष्ट शब्दनिब
३
४
वा. पाठः.
अभेदप्राधान्य इत्यनेनोपमादेर्व्यावृत्तिः, आरोप इत्युत्प्रेक्षादेः, विषयानपह्नव इत्यपह्नुतेः । आरोप इत्यादि । अन्यत्र मुखादावन्यस्य चन्द्रादेरावापः निक्षेपः । विषय्यवष्टब्धत्वादिति । अवष्टब्धत्वमात्रान्तत्वम् । असत्यत्वापादनमिति यावत् । विषयिणा कमलादिना । विषयस्य मुखादेः । रूपवतः करणादिति । स्वीयकमलादिरूपशालित्वेन करणादित्यर्थः । अनेनैव रूपवन्तं करोतीति रूपवच्छब्दाण्णिचि ण्डुलि च रूपयतीति रूपकमिति निरुक्तिरपि दर्शिता । साधर्म्य त्वनुगतमेवेति । एकयोगनिर्दिष्टस्य भेदाभेदतुल्यत्व इत्यस्य निवृत्तावपीति शेषः । प्रकृष्यत इति । सादृश्यातिशयप्रतीतेः । निरवयवमवयवेभ्यो निष्कान्तम् । अवयवरूपणरहितमिति यावत् । सावयवमवयवरूपणयुक्तम् । परम्परितं रूपकपरम्परायुक्तम् । केवलमेकधैव रूपितम् । यत्रैकस्मिन् बहव आरोप्यन्ते तन्मालारूपकम् | समस्तानि रूप्यत्वेनाभिमतानि वस्तनि स्वशब्दोपात्तानि विषयो यस्य तत् समस्तवस्तुविषयम् । एकदेशे स्वशब्दोपादानाद् विशेषेण वर्तत इत्येकदेशविवर्ति । श्लिष्टाश्लिष्टेति । २. 'कृत', ३. 'ति त', ४. 'तमिति' क.
१. 'दप्रा' क. ख. पाठः.
"