________________
निरूपणम्] सव्याख्यालङ्कारसर्वस्वोपेतम् । कान्तं सुखमिति । तत्रापि विभावाद्यामूरितत्वे, ने स्वशब्दमात्रप्रतिपादितत्वे । यथा- 'अत्रानुगोदमित्यादौ।
"यैदृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि - स्फीतासृक्स्रुतिपाटलीकृतपुरोभागः परान् दारयन् । तेषां दुस्सहकामदेहदहनप्रोद्भूतनेत्रानल
- ज्वालालीभरभासुरे स्मररिपावरतं गतं कौतुकम् ॥" इत्यादौ सदृशानुभवेऽप्यशक्यवस्त्वन्तरकरणात्मा विशेषालङ्कारः । करणस्य क्रियासामान्यात्मनो दर्शनेऽपि सम्भवात् । मतान्तरे काव्यलिङ्गमेतत् ॥
तदेते सादृश्याश्रयणेन भेदाभेदतुल्यत्वेऽलङ्कारा निपीताः । सम्प्रत्यभेदप्राधान्ये कथ्यन्तेअगरिनत्वे आक्षिप्तत्वे । विभावादिभिर्व्यञ्जितत्व इति यावत्। न स्वशब्देति । व्यभिचारिणां स्वशब्दवाच्यत्वस्य दुष्टत्वात् । अत्र स्मृतेः मुखमालम्बनविभावः, कोपेऽपि कान्तत्वमुद्दपिनविभावः, अहो इत्यादिवचनं वागारम्भानुभावः । यैरित्यादि । ललाटपतितप्रासप्रहारत्वेन ज्वलदालिकविलोचनत्वप्रतियोगिकबिम्बप्रतिबिम्बभाववता सदृशस्य वर्णनीयस्यानुभवेन जन्यस्य कौतुकास्तगमनेन स्वनिमित्ततयाक्षिप्तस्येश्वरज्ञानस्य साक्षाकारत्वेन विवक्षितत्वान्न स्मृत्यलङ्कारः, अपि तु वक्ष्यमाणस्तृतीयों विशेषप्रकार इत्याह -सदृशानुभवेऽपीत्यादिना। मतान्तर इति । उद्भटादिमते । एवंविधवर्णनीयदर्शनस्येश्वरानुभवहेतुत्वात् काव्यलिङ्गत्वम् । तदुक्तं
- "श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा ।।
हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥" शति ॥ म. १. 'अ' क. ख. पाठः. २. 'न तु स्व' ग., 'न तु श', ३. 'शवस्त्वतरान, ४. 'त् ॥ सा', ५. 'येण भे' क. ख. पाठ.. . 'गिबि' ख. पाठः.