SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २८ अलङ्कारसूत्र [स्मरण] सदृशानुभवाद् वस्त्वन्तरस्मृतिः स्मरणम् ॥ १४ ॥ वस्त्वन्तरं सदृशमेव । अविनाभावा भावान्नानुमानम् । यथा “अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तत्रैव तुल्यरूपम् । कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥" सादृश्यं विना तु स्मृतिर्नायमलङ्कारः । यथा - "अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः । रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तिम् ॥” अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वेन स्मर्तृदशाभावित्वमसमीचीनम् । प्रेयोलङ्कारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः । यथा - 'अहो कोपेऽपि सदृशानुभवादित्यादि । येनकेनचित् सदृशस्य दर्शनाद् यस्य कस्यचित् स्मृतेरलङ्कारत्वेऽतिप्रसङ्गः । अत आह - वस्त्वन्तरमिति । अनुभूयमानेनेति शेषः । सदृशशब्दस्य सम्बन्धिशब्दत्वात् । अविनाभावाभावादित्यादि । नहि सदृशानुभवस्य वस्त्वन्तरस्मृतेश्च व्याप्तिरस्ति । नायमलङ्कार इति । अनलङ्कारोऽलङ्कारान्तरं वा । अनुगोदमित्यादावनलङ्कारः । 'अहो' इत्यादावलङ्कारान्तरम् । अत्रानुगोदमित्यादि । अत्रे स्वापस्य स्मृतिः सहचरितदेशदर्शनात् । स्मर्तव्यदशा स्वापावस्था । स्मर्तृदशैतद्वचनप्रयोगसमयः । असमीचीनम् इदानीमविद्यमानत्वात् । प्रेयोऽलङ्कारशब्देनाजितस्मृत्याख्यो व्यभिचार्यपरं प्रत्यङ्गभूत उच्यते । 'थै' क ख. पाठः, २, 'त्र च स्वा' ख. पाठः
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy