________________
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा ॥ १३ ॥
तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्शः । पर्यायो यौगपद्याभावः । अत एवात्र वाक्यभेदः । इयं चं धर्मस्य साधारण्ये वस्तुप्रतिवस्तुनिर्देशे च द्विधा । आद्या यथा -
"खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥"
निरूपणम् ]
द्वितीया यथा
-
२७
“सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजाः । वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः ॥” पेक्षया द्वितीयस्य सब्रह्मचारिणो निवृत्त्यर्थः । सदृशव्युदासार्थ इति यावत् । अत एवेति । सदृशान्वयाभावात् ॥
यौगपद्याभावः, न तु शब्दान्तरमेकार्थम् । अत एवेति । पर्यायवृत्तित्वात् । खमिवेत्यादि । अत्र विमलत्वादिधर्मः साधारण्येन प्रतीयते । सच्छायेत्यादि । अत्र सच्छायाम्भोजवदनत्वमेक एव धर्मो वाप्यङ्गनालक्षणसम्बन्धिभेदमात्रभिन्नो वस्तुप्रतिवस्तुभावेन निर्दिश्यते । नन्वत्र वापीपक्षे वदनमिवाम्भोजमित्यर्थः प्रतीयते, अङ्गनापक्षेऽम्भोजतुल्यं वदनमित्युत्तरत्रे विपर्ययेण । तत् कथमर्थभेदे सति धर्मस्यैकरूप्यम् । सत्यम् । अभेदाध्यवसायमूलयातिशयोक्त्या धर्मस्यैकरूप्यमध्यव सातव्यम् । अथवा वदनाम्भोजौपम्यलक्षणपरस्परसदृशाभिधायित्वादत्र बिम्बप्रतिबि म्बभावरूपो वस्तुप्रतिवस्तुनिर्देशोऽवगन्तव्यः । यद्वा, परस्परोपमानोपमेमभूताम्भोजवदनलक्षणसंबन्धिभेदादस कृन्निर्दिष्टस्य सच्छायत्वस्य भेदः 1 तादृशवाप्यङ्गनापेक्षया धर्मभूतयोर्मिथः सादृश्यविशिष्टयोरम्भोजवदनयोर्थर्मिणोर्बिम्बप्रतिबिम्बभावः । अन्ये तु द्वयोरपि वाक्ययोः समानधर्मस्य सकृदुपादाने धर्मस्य साधारण्यम् असकृदुपादाने वस्तुप्रतिवस्तुनिर्देशं चाहुः । तदानीं सच्छायाम्भोजवदना वाप्योऽङ्गना इव, सच्छायवदनाम्बुजा अङ्गना वाप्य इवेत्यन्वयः ॥
।
१. 'तु' क. ख. पाठः २. 'त्रापि पर्याय' ख. पाठः.