________________
अळङ्कारसूत्रं
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥”
अत्र हाराङ्गरागयोर्निर्झरबालातपौ प्रतिबिम्बत्वेन निर्दिष्टौ ॥ एकस्यैवोपमानोपमेयत्वेऽनन्वयः ॥ १२ ॥
वाच्या भिप्रायेणात्र पूर्वरूपानुगमः । एकस्य तु विरुधर्मसंसर्गे द्वितीयसब्रह्मचारिनिवृत्त्यर्थः । अत एवानन्वय
२६
२
इति योगोऽप्यत्र सम्भवति । यथा -
३
"युद्धेऽर्जुनोऽर्जुनइव प्रथितप्रभवो
भीमोऽपि भीम इव वैरिषु भीमकर्मा । न्यग्रोधवर्तिनमथाधिपतिं कुरूणा
५
मुत्प्रासनार्थमभिजग्मतुरादरेण ॥”
[अनन्वय:
तत्वादिना तयोः सदृशत्वादित्याहुः । पाण्ड्योऽयमित्यादि । प्रथमपक्षेऽदशितत्वादुदाहरणम् । द्वितीये तु विविक्तत्वेन प्रदर्शनाय ||
एकस्यैवेत्यादि । ननु साधर्म्यादिकस्य भिन्नवस्तुनिष्ठत्वादत्र कथं सम्भवः, अत आह— वाच्याभिप्रायेणेति । एक एवार्थः शब्देन द्विरभिहितो भिन्नवदवभासते । तस्माद् अर्जुनोऽर्जुन इवेत्यादौ एकस्यैवार्जुनस्य शब्दवाच्य|कारपर्यालोचनेन भेदावभासात् पूर्वनिर्दिष्टस्य साधर्म्य - दिरूपस्यानुगमः सम्बन्धो वेदितव्यः । अन्ये तु पूर्वमुपमानोपमेययोरेकतरप्रतिपादनायोपात्तस्य शब्दरूपस्य पर्यायव्यवच्छेदेन द्वितीयेऽप्यनुगमोऽनुवृत्तिः वाच्याभिप्रायेण वाच्यस्यार्जुनादेः शब्दभेदोपाधिकभेदप्रतिभासापनयनेन वास्तवस्यैकत्वस्य स्फुटप्रतिपत्तिमभिप्रेत्य क्रियत इति द्रष्टव्यम् । एतच्च लाटानुप्रासनिरूपणसमय उक्तमप्यत्रानुस्मारयतीत्याहुः । विरुद्धधर्मेति । उपमानोपमेयत्वाप्राकरणिकत्वप्राकरणिकत्वोत्कृष्टत्वापकृष्टत्वप्रसिद्धत्वाप्रसिद्धत्वलक्षणविरुद्धधर्मसंसर्गः । द्वितीयेति । प्रकृता१. 'द्ध', २. 'ति । यु', ३. 'हि', ४. 'तापो भी', ५. 'धि' क.
ख. पाठः,