________________
निरूपणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
२५
“प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥” "यान्त्या मुहुर्वलितकन्धरमाननं त
दावृत्त वृन्त शतपत्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥ "
1
अत्र वलितत्वावृत्तत्वे सम्बन्धिभेदाद् भिन्ने । धर्म्यभिप्रायेण तु बिम्बप्रतिबिम्बत्वमेव ।
"पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन ।
"
पर्तः । अयमपि प्रकारो धर्मरूपस्यैव । बिम्बप्रतिबिम्बभावो मिथः सादृश्यम् अयं तु धर्मधर्मिणोरुभयोरपि भवति । प्रभामहत्येत्यादि । अत्र दीपादीनामुपमानानां हिमवत उपमेयस्य च पूतत्वविभूषितत्वे अनुगामितयैकरूप्येण निर्दिष्टे । सम्बन्धिभेदादिति सम्बन्धिनोः कन्धरावृन्तयोर्भेदात्, न स्वरूपतः । अनयोश्चोपमानोपमेयभावः स्वसम्बन्धिनोर्मुखशतपत्रयोरभिधानसामर्थ्यादवसीयते । धर्म्यभिप्रायेणेति । धर्मिणोः समानधर्मत्वेऽभिप्रेते बिम्बप्रतिबिम्बभाव एव भवति, न सम्बन्धिभेदमात्रम् । धर्मयोस्तूभयमपि भवति । तत्र सम्बन्धिभेदमात्र उदाहृतम् । बिम्बप्रतिबिम्बभावे यथा
"
अनिशं निशम्यमाने रविवर्मनरेन्द्र ! भाषिते भवतः । अमृत इव पीयमाने निर्वृतिमुपयाति सुमनसां वर्गः ॥ अत्र वचनामृतयोरुपमेयोपमानयोः निशम्यमानपीयमानत्वे धर्मो बिम्बम तिर्बिम्बत्वेन निर्दिष्टौ । अन्ये तु बिम्बप्रतिबिम्बभावस्यापि विद्यमानत्वात् तमप्यत्रैव दर्शयितुमाह – धर्म्यभिप्रायेणेति । धर्मिणोः कन्धरावृन्तयोर्मुखशतपत्रापेक्षया साधारणधर्मत्वाभिप्रायेण बिम्बप्रतिबिम्बभाव एव, वलि
T
-
१. 'तः । अनयोश्चापमानोपमेयभावाय' ग. पाठः.
E