________________
२१
अलङ्कारसूत्रं
(उपमातत्रापि साधारणधर्मस्य क्वचिदनुगामितयैकरूप्येण निर्देशः। कचित् वस्तुप्रतिवस्तुभावेन पृथङ् निर्देशः । पृथङ् निर्देशे च सम्बन्धिभेदमात्रं प्रतिवस्तूपमावत् । बिम्बप्रतिबिम्बभावो वा दृष्टान्तवत् । क्रमेणोदाहरणानि -
वसु च वितरन्नर्थिभ्यो यः सहस्रकरीयति
त्रिजगति भवेत् को नामास्योपमा रविवर्मणः ॥ अत्र फणधरभुजस्येति प्रतापविभावसाविति च बहुव्रीहौ तत्पुरुषे च समासे शलभतीति क्विपि च धर्मद्योतकयोर्लोपः । तुल्यो न यस्य दयाविधाविति को नामेत्यादौ चोपमानस्य धर्मोपमानयोश्च लोपः । सहस्रकरीयतीत्यत्रात्मानं सहस्रकरमिवाचरतीत्यर्थप्रतीतेः क्यचि द्योतकोपमेययोलौंप इति पञ्चभेदा दर्शिताः । इतरस्य भेदत्रयस्योदाहरणं -
यदुनाथसमो नास्तीत्याहुः स्थाने मृगीदृशः ।
नहि संवननं तासां कचित् तद्रूपसन्निभम् ।। अत्र यदुनाथसमो नास्तीति नहि संवननं तासामित्यादौ च वृत्तौ च धर्मोपमानयोरुपमानस्य च लोपः । मृगीदृश इत्यत्र त्रिलोप इति पञ्चविंशतिरुपमाभेदाः । आदिशब्देन मालारशनोपमयोर्ग्रहणम् । लुप्तापूर्णात्वभेदादिति पाठे मालारशनोपमे अत्रैवान्तर्भूते इति न पृथगुपात्ते । पुंवद्भावाभावश्च पूर्णालुप्ताशब्दयोः संज्ञात्वेन गुणवचनत्वाभावात् । तयोश्चान्तर्भूतत्वेऽप्यन्यैः पृथगुपादानादस्माभिरुदाहरणं प्रदर्श्यते । तत्र मालोपमायास्तु बहूपमानो. पादानलक्षणायाः 'प्रभामहत्ये' त्येतदेवोदाहरणम् । उत्तरोत्तरग्रथनात्मिका रशनोपमा यथा ---
वपुरिव मधुरं वचः प्रसन्नं वच इव कूपकभूपते ! नमस्ते ।
मन इव चरितं विशुद्धमन्यांश्वरितमिव क्षितिपान् यशोऽतिशेते ॥ एषु च प्रभेदेषु यथासम्भवं प्रकारत्रैविध्यमन्यैरप्रदर्शितं दर्शयति-तत्रा पीत्यादिना । साधरणधर्मस्य धर्मरूपस्य वा परावच्छेदकतयारोपितधर्मत्वस्य धर्मिरूपस्य वा । तत्रैकरूप्येण निर्देशो धर्मरूपस्यैव । सम्बधिभेदमात्रमिति । उपमानोपमेयलक्षणधर्मिभेदादेव भेदो न स्वरू
१. 'णं प्र' ग. पाठः. २. 'च ध' क. पाठः, ३. 'माद्यांश्च' ख. पाठः,