________________
निरूपणम् ]
सव्य | ख्यालङ्कार सर्व स्वोपतम् ।
कान्त्या तुल्यस्त्वमिन्दोर्बुधशनिसमता युज्यते ते कलावन्मित्रानन्दैकहेतोस्तदसि यदुनृप ! ज्योतिषां सञ्चयस्त्वम् ॥ एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता । तत्र धर्मलोपे पञ्चविधत्वमुक्तं - “तद्वद् धर्मस्य लोपे स्यान्न श्रौती तद्धिते पुनः” इति । यथा
कृतान्त इव विद्विषां प्रणयिनां यथा स्वर्दुमो विहारगिरिसन्निभो यदुनरेन्द्र ! वरिश्रियः । समश्च कुसुमेषुणा त्वमसि कामिनीनामतः
पुनस्तव महीक्षितो दिवस दीपकल्पाः परे || द्योतकलोपे षड्विधमुक्तम् -
“वादेर्लोपे समासे सा कर्माधारक्यचि क्यङि । कर्मकर्त्रीर्णमुलि”
इति । यथा -
कुन्दश्वेतं यशस्ते तुहिनकरकरीयन्ति नित्यं चकोराः कोशागारे स्ववेश्मयति बुधनिवहस्तावके यादवेन्द्र ! | मध्याह्नार्कप्रतापं तपति च भवानन्धकारायमाणान् विद्राव्याज द्विषस्तत्कथमितरजनस्तावमेते स्तुमस्त्वाम् ॥ उपमानस्यानुपादाने धर्मद्योतकयोर्धर्मोपमानयोश्च लोपे प्रत्येकं द्वैविध्यम् । तदुक्तम्
-
“उपमानानुपादाने वाक्यगाथ समासगा "
" एतद्विलोपे किप्समासगा ।
धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते ।"
द्योतकोपमेययोर्लोपे द्योतकोपमेयधर्माणां लोपे चैकधा । तदुक्तं - 'क्यचि वाद्युपमेयासे' इति, 'त्रिलोपे च समासगे 'ति च । अन्ये तु द्योतकोपमानधर्माणां लोपात् त्रिलोपमाहुः । एवमुपमानादिलोपेऽष्टविधत्वम् । यथाफणधरभुजस्याजौ यस्य प्रतापविभावसौ
शलभति रिपुस्तोमस्तुल्यो न यस्य दयाविधौ ।
१. 'त्व' ख. पाठः.
-