________________
२२
अलङ्कारसूत्रं
1
अर्थालङ्कारप्रकरणमिदम् । उपमानोपमेययोरित्यप्रतीतोपमानोपमेयनिषेधार्थम् । साधर्म्ये त्रयः प्रकाराः । भेदप्राधान्यं व्यतिरेकवत् । अभेदप्राधान्यं रूपकवत् । द्वयोस्तुल्यत्वं यथास्याम् । यदाहुः -- "यत्र किञ्चित् सामान्यं कश्चिच्च विशेषः स विषयः सदृशतायाः" इति । उपमैवै च प्रकारवैचित्र्येणाने कालङ्कारबीजभूतेति प्रथमं निर्दिष्टा । अस्याश्च पूर्णालुप्तदित्वभेदाद् बहुविधत्वं चिरन्तनैरुक्तम् ।
[उपमा
अर्थालङ्कारप्रकरणमिदमित्यनेनेोपमादे भजे नोक्तमुभयालङ्कारत्वं शब्दसाम्ये रुद्रटस्याभिमतं शब्दालङ्कारत्वमर्थश्लेषादेश्च काव्यप्रकाशकारोक्तं शब्दालङ्कारत्वं च निरस्यति । ननु साधर्म्यं समानधर्मसम्बन्धः । स चोपमानोपमेययोरेव सम्भवति, न कार्यकारणादिकयोरिति साधर्म्य इत्यनेनैव गतार्थत्वादुपमानोपमेययोरिति न निर्देष्टव्यमत आह – उपमानोपमेययोरित्यप्रतीतेति । " कुमुदमिव मुखं तस्या" इत्यादौ । अत एवो - मानोपमेयग्रहणादनन्वयस्योपमेयोपमायाश्च व्यावृत्तिः । लोके हि भिन्नयोरुपमानोपमेयत्वे व्यवस्थितत्वेन प्रतीयेते । तत्रानन्वये भेदाभावः । उपमेयोपमायां व्यवस्थाया अन्यथाभावः । भेदाभेदतुल्यत्व इत्यनेन रूपकादेर्व्यतिरेकादेश्च व्यावृत्तिः । साधर्म्य इत्यनेनासक्षोपमादेः । व्यतिकवदिति । यथा व्यतिरेक इत्यर्थः । यत्र किञ्चिदित्यादि । किञ्चित्सामान्यमित्यनेनाभेदो दर्शितः, कश्चिच विशेष इत्यनेन भेदः । पूर्णेत्यादि । उपमानोपमेयसाधारणधर्मोपमाद्योतकानामुपादाने पूर्णा । सा च षोढा कथिता
" श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा " इति । तत्रैवाद्युपादाने ती । तुल्यादिशब्दोपादाने आर्थी । यथा वाचं वाचां यथेशः प्रथयसि निधिरस्यंशुमालीव धाम्नां रक्ताङ्गो भौमवत् त्वं तव भृगुसुतवत् काव्यशब्देन रूढिः ।
१. 'र्थः ।', २. 'श्चिद् वि', ३. 'व प्र', ४. 'प्तात्व' क. ख. पाठः.