________________
निरूपणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् । श्लिष्टाक्षरत्वम् । विदिग्दलष्वन्यथा । कर्णिकाक्षरं तु श्लिष्टमेव ॥
उपमानोपमेययोः साधम्र्ये भेदाभेदतुल्यत्वे उपमा ॥ ११॥
निर्गमप्रवेशयोरानुलोम्येन प्रातिलोम्येन च श्लिष्टाक्षरत्वम् । विदिग्दलेविति । प्रति ताह त्माशु बत इत्येषामक्षरयुग्मानां सकृदेव पाठादन्यथात्वमश्लिष्टाक्षरता । कर्णिकाक्षरं तु श्लिष्टमेवेति । भा इत्येतस्याष्टकृत्वः पाठात् सूत्रे प्रतिपदोक्तं खड्गमपहायादिशब्दोपात्तस्य पद्मबन्धस्योदाहरणप्रदर्शनं खड्गस्य बहुभिरदर्शितत्वादतिक्लिष्टत्वाच्चेत्याहुः । खड्गस्य दिदृक्षितत्वे पुनरिदमुदाहरणं - “सानन्दवन्दिजनगीतविचित्रभूमा
मातङ्गमन्थरगतिमहनीयभासा । सारोत्तरेण वपुषा परिपन्थिहिंसा
सातत्यसङ्ग! यदुनाथ ! जयाङ्गजश्रीः ॥ सादितशत्रुदेहगलितरुधिरतटिनी
नीतविवृद्धकीर्तिजलधिभरितनभसा । साहसवर्जितेन यदुवर ! गुरुतरसा
सारवतीभयात! धरणिरजनि भवता ।। अनयोश्चायं प्रस्तारः -- द्राढिकान्तरे सेति शब्दं न्यस्य प्रथमं पादमधोधः क्रमेण न्यस्य तदन्तगतं माशब्दं नीशब्दं वा शिखायां न्यस्य तदेवारभ्योवक्रमेण द्वितीयं पादं यावत् साशब्दं न्यस्येत् । तस्यैव साशब्दस्य दक्षिणोत्तरपार्श्वयोस्तृतीयपादस्याद्य साशब्दादिमन्त्याधं च तदन्तं न्यस्यत् । एषा द्राढिका । ततस्तमेव साशब्दमारभ्योलक्रमेण वर्णत्रयं तदुपरि गकारो भकारो वा । तत्पार्चे पूर्ववत् त्रीस्त्रीश्चतुरश्चतुरो वर्णान् न्यस्येत् । एतत्फलकम् । ततस्तदुपरि वर्णद्वयम् । एतन्मस्तकम् ॥
१. 'त्येतेषा' क. पाठः.