________________
अलङ्कारसूत्रं
[चित्र
वर्णानां खड्गाद्याकृतिहेतुत्वे चित्रम् ॥ १० ॥ पौनरुक्त्यप्रस्तावे स्थानविशेषश्लिष्टंवर्णपौनरुक्त्यात्मकचित्रवचनम् । यद्यपि लिप्यक्षराणां खड्गादिसन्निवेशविशिष्टत्वं, तथापि श्रोत्राकाशसमवेतवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकालङ्कारोऽयम् । आदिग्रह्णाद् यथाव्युत्पत्तिसम्भवं पद्मबन्धादिपरिग्रहः । यथा -
२
“भासते प्रतिभासार ! रसाभाता हताविभा । भावितात्मा शुभा वादे देवाभा बत ते सभा ||" एषोऽष्टदलैः पद्मबन्धः । अत्र दिग्दलेषु निर्गमप्रवेशाभ्यां
२०
यद्य
वर्णानामित्यादि । लक्ष्यलक्षणयोर्वैयधिकरण्येन निर्देश उद्धटेनापि कृतः – 'छेकानुप्रासस्तु द्वयोर्द्वयोः सुसदृशाकृताविति । स्थानविशेषलिष्टेति । कर्णिकादिस्थानविशेषन्यस्त एकस्मिन् वर्णेऽनेकवर्णोपलम्भादनेकवर्णस्य सङ्गतत्वाद् वा । अस्य च स्थानविशेषश्लिष्टपौनरुक्त्यात्मकत्वस्य प्रकरणसङ्गतौ हेतुगर्भविशेषणता । श्रवणेन्द्रियग्राह्यस्य शब्दत्वात् खड्गादिसन्निवेशविशेषभाजां लिप्यक्षराणां चक्षुर्ग्राह्यत्वादशब्दत्वात् चित्रस्य शब्दालङ्कारत्वं न घटते इत्याशङ्कय परिहरति पीत्यादिना । अर्थवत एव शब्दस्यालङ्कारत्वाद् वाचुकालङ्कार इत्युक्तम् । चित्रशब्दस्य नपुंसकत्वेऽप्यलङ्कारापेक्षयायमिति पुल्लिङ्गनिर्देशः । यथाव्युत्पत्तिसम्भवं व्युत्पत्तिसम्भवावनतिक्रम्य । पद्मबन्यदीति । आदिशब्देन चक्रमुरजबन्धादिपरिग्रहः । भासत इत्यादि । प्रतिभासार ! ते तव सभा रसाभाता रसेन आ समन्ताद् दीप्ता । हताविभा हता अविभा अज्ञा यस्याः सा, अविभा अज्ञानं वा यस्याः सा । भावितः भावनया विषयीकृत आत्मा यया सा भावितात्मा । वादे कथाविशेषे शुभा । देवामा देवसदृशी । सभासभासदोरभेदोपचारादेवमुक्तम् | दिग्दलेविति । सते सार तावि वादे इति चतुर्णामक्षरयुग्मानां कर्णिकातो
१. 'ष्टपौ', २ 'क', ३. 'ल' क. ख. पाठः. ४. 'न्ध इत्यादी' क. पाठः