________________
निरूपणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
“अत्राब्जपत्रनयने ! नयने निमील्य" इत्यादौ विभक्त्यादेरेपौनरुक्त्येऽपि बहुतरशब्दार्थपौनरुक्त्यालाटानुप्रासत्वमेव । "काशा काशा इवे" त्यादावनन्वयेन सहास्य सङ्करः । अन्योन्यापेक्षशब्दार्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थितेभिन्नविषयत्वात् ।
अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् | अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥ तदेवं पौनरुक्त्ये पञ्चालङ्काराः ॥ ९ ॥ निगद्व्याख्यानमेतत् ॥
१०.
-
यद्यप्यस्य शोभावत्त्वादिलक्षणेऽर्थान्तरे सङ्क्रमितत्वादर्थमेदः, तथापि सकेतितार्थापेक्षया पौनरुक्त्यं द्रष्टव्यम् | 'अत्राब्जपत्रनयने' इत्यादौ नयने नयने इत्यत्र यद्यपि शब्दस्वरूपं न भिद्यते, तथापि पूर्वत्रैकत्वविशिष्टायाः संबोधनमेवार्थः, उत्तरत्र द्वित्वविशिष्टयोर्डशोः कर्मत्वमित्यर्थभेदात् कथं लाटानुप्रासत्वमित्याशङ्कय परिहरति — विभक्त्यादेरित्यादि । आदिशब्देन वचनं गृह्यते । वर्णमात्रविभक्त्याद्यपेक्षया बहुतरस्य नयनेति प्रातिपदिकस्यार्थपौनरुक्त्यान्न दोष इत्यर्थः । अत्र पूर्वो नयन शब्दो ऽञ्जपत्रसादृश्यविशिष्टार्थवृत्तिः सम्बोधनीयामुपलक्षयति । उत्तरस्तु निमीलनक्रियाक र्माभिधायी निमील्येत्यनेनान्वयं भजते । काश इत्यादि । सङ्करः एकवाचकानुप्रवेशलक्षणः । ननु लाटानुप्रासादविविक्तविषयत्वात् तस्य बहुविषयत्वाच्चानन्वयः पृथगलङ्कारत्वेन न लक्षणीय एव, कुतः सङ्कर इत्याशक्यानन्वयस्य विविक्तोदाहरणत्वाभावेऽप्यलङ्कार्यात्मन आश्रयस्य भेदाद् भेद इत्याह – अन्योन्यापेक्षेति । शब्दावर्थभेदमपेक्षेते, अर्थों च शब्दाभेदमित्यर्थः । ननु यद्यर्थाश्रयोऽनन्वयः, तत् किमैकशब्द्यनिबन्धेनेत्यत आह – अनन्वय इत्यादि । औचित्यादिति । अन्यथा शब्दभेदेनार्थान्तरतया प्रतिभासादुपमानोपमेययोरेकत्वप्रतीतिविलम्बः स्यात् ।।
-
१. 'रर्थपौं' क. ख. पाठः. 'यो: क', ३. 'यात्', ४. 'न ल' ख. ग. ५. 'थ श' क. पाठः.
पाठ:.