________________
अलङ्कारसूत्र
लाटानुप्रास शब्दार्थपौनरुक्त्यंप्ररूढं दोषः ॥ ७॥
प्ररूढग्रहणं वक्ष्यमाणालङ्कारपौनरुक्त्यवैलक्षण्यार्थम् । यदाहुः -- “शब्दार्थयोः पुनर्वचनं पौनरुक्त्यमन्यत्रानुवादाद्” इति ॥
तात्पर्यभेदवत् तु लाटानुप्रासः ॥ ८॥ तात्पर्यमन्यपरत्वम् । तदेव भिद्यते यत्र, न तु शब्दार्थस्वरूपम् । यथा"ताला जाअन्ति गुणा जाला दे सहिअएहि घेप्पन्ति ।
रइकिरणाणुग्गहिआइ होन्ति कमलाइ कमलाइ ॥" पूर्वभागानर्थक्ये यथा
इतरपार्थिववद् यदुभूपतेः स्तुतिविधौ क इव क्षमते कविः ।
जयति कर्णमदृष्टचरेण यो वितरणेन रणेन च फल्गुनम् ।। उत्तरभागानर्थक्ये यथा -
अभिजनश्रुतिविक्रमसम्पदः समवयन्ति यदुक्षितिप! त्वयि । तदपि नैव तवास्ति वपुःश्रिया विजितदर्पक ! दर्पकलङ्किता ॥
वक्ष्यमाणेति अलङ्कारभूतलाटानुप्रासलक्षणशब्दार्थपौनरुक्त्यव्यावृत्यर्थम् । प्ररूढं दोष इत्यत्र वृद्धसम्मतिमाह-शब्दार्थयोरित्यादि ।
तात्पर्यभेदवत्त्वित्यादि । शब्दार्थपौनरुक्त्यमित्यनुवर्तते । शब्दार्थपौनरुक्त्यरूपत्वादेवानुप्रासप्रस्तावोलङ्घनेनेह लक्षितः । अन्यपरत्वम् उद्देश्यविधेयत्वादिभेदादन्वयभेदः । ताला इत्यादि ।
तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ।। अत्र प्रथमस्य कमलशब्दस्य रविकिरणानुगृहीतानीत्यनेनान्वितस्योद्देश्याथवृत्तित्वं, द्वितीयस्य तु भवन्तीत्यनेनान्वितस्य विधेयार्थनिष्ठत्वम् ।
१. 'पौनरुक्त्यप्रभेदवै' क. ख. पाठः,