________________
निरूपणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् । "आटोपेन पटीयसा यदपि सा वाणी कवेरामुखे
खेलन्ती प्रथते तथापि कुरुते नो सन्मनोरञ्जनम् । न स्याद्यावदमन्दसुन्दररेसालङ्कारझङ्कारितः
स प्रस्यन्देिलसद्रसायनरसासारानुसारी रसः ॥" स्वरव्यञ्जनसमुदायपौनरुक्त्यं यमकम् ॥६॥
अत्र क्वचिद् भिन्नार्थत्वं, क्वचिदनर्थकत्वं, कचिदेकस्यानर्थकत्वमपरस्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयम् । यथा
“यो यः पश्यति तन्नेत्रे रुचिरे वनजायते ।
तस्य तस्यान्यनेत्रेषु रुचिरेव न जायते ॥" इदं च सार्थकत्वे । एवमन्यत्तु ज्ञेयम् ॥ दर्शितः, एकधेत्यनेनानेकधेत्यस्य, व्यादीनामित्यनेन द्वयोरित्यस्य । आटोपेनेत्यादि । पूर्वार्धे केवलव्यञ्जनसादृश्यम् । अलङ्कारझंकारित इत्यत्र व्यञ्जनसमुदाययोरेकधा सादृश्यम् । रसायनेत्यादौ रेफसकारात्मनां व्यादीनां व्यञ्जनसमुदायानां सादृश्यम् ।।
संक्षेपत इति । अत्रैव पादपादैकदेशादिवृत्तीनां सकलभेदानामन्तर्भाव इति भावः । यो य इत्यादि । वनजे तामरसे इवायते रुचिरे इति नेत्रयोर्विशेषणे । अन्यनेत्रेष्वित्यैत्र ‘सर्वनाम्नो वृत्तिमात्र' इति पुंवद्भावः । रुचिरिन्छैव न जायते । एवमन्यत्त्विति । उभयानर्थकत्वे यथा
दददनथित एव मनोरथादधिकमार्थजनाय यदूद्वहः । कथमिवास्तु पुरन्दरशाखिना समधुरो मधुरोक्तिविचक्षणः ।।
१. 'गुणाल', २. 'द'. ३. थत्वं', ४. 'मितर' के. ख. पाठः, ५. 'दमसा' क. पाठः. ६. 'न्यज्ज्ञे' ग. पाठः. ५. 'त्मकानां', ८. 'शव', ९. 'ति' स', १०. 'त्रे पुं', ११. 'दि' ख. पाठः.