________________
.... अलङ्कारसूत्रं
[वृत्त्यनुमासएतानि केलिरसितानि सितच्छदाना
माकर्ण्य कर्णमधुराणि न लज्जितोऽसि ॥" अत्र सायंशब्देऽस्यालङ्कारस्य यकारमात्रसादृश्यापेक्षया वृत्त्यनुप्रासेन सहैकाभिधानानुप्रवेशलक्षणः सङ्करः। छेका विदग्धाः ॥
__ अन्यथा तु वृत्यनुप्रासः ॥ ५॥
केवलव्यञ्जनसादृश्यमेकधा समुदायसादृश्यं व्यादीनां च परस्परसादृश्यमन्यथाभावः । वृत्तिस्तु रसविषयो व्यापारः । तद्वती पुनर्वर्णरचनेह वृत्तिः । सा च परुषकोमलमध्यमवर्णारब्धत्वात् त्रिधा । तदुपलक्षितोऽयमनुप्रासः । यथा मदीये श्रीकण्ठस्तवे
__ व्यञ्जनमात्राश्रितमित्यनेन सूत्रस्थस्य पूर्वशब्दस्यार्थमाह । किं नामेत्यादि । मधुरवचसां मध्ये कटुभाषिणं कश्चिदप्रस्तुतसरूपस्तुत्या प्रतिक्षिपति । अत्र दुरदुरेति द्वौ व्यञ्जनसमुदायौ मिथः सदृशौ । एवं सायसाय रुषेरुषे सितसित कर्णकर्णेत्यत्र । इत्यनेकधात्वम् । वृत्त्युनुप्रासेनेत्यादि । केवलव्यञ्जनसादृश्यलक्षणप्रकारविशिष्टेन । एकाभिधानेति । सायसायमित्यत्र दुरदुरेतिवच्छेकानुप्रासः । सायं कायमित्यत्र 'आटोपेन पटीयसे'त्यादिवद् वृत्त्यनुप्रासः । तावुभावप्येकं सायंशब्दमाश्रयतः । अप्रस्तुतत्वेऽपि सङ्करप्रदर्शनं तस्य तस्यालङ्कारस्यालङ्कारान्तरासंस्पृष्टोदाहरणदौर्लभ्यं प्रधानेन व्यपदेशं च ख्यापयितुम् । छेका विदग्धा इति। न त्वालयवर्तिनो मृगपक्षिणः । अनेनच्छेकानामनुमतत्वेन सम्बन्धी अनुप्रास इति अस्य निरुक्तिं दर्शयति । पूर्वत्रापुनरुक्तस्यापि पुनरुक्तवदाभासः प्रतिभास इत्यस्यार्थस्य स्फुटत्वाद् न निरुक्तिः कृता । ..
केवलव्यञ्जनसादृश्यामित्यनेन व्यञ्जनसमुदाययोरित्यस्यान्यथामावो
१. 'ध्यव' ख. पाठः, २. 'चरिते - आ', ३. 'कप्रकारत्व', ५. 'स्यालद्वारा' क. ख. पाठः.