________________
निरूपणम्] सव्याख्यालङ्कारसर्वस्वोपेतम् । इत्यादि । शब्दपौनरुत्यं तु व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यअनसमुदायपौनरुक्त्यं च । अलङ्कारप्रस्तावे केवलस्वरपौनरुक्त्यमचारुत्वान गण्यत इति दैविध्यमुक्तम् ॥
सङ्ख्यानियमे पूर्वं छेकानुप्रासः॥४॥
द्वयोर्व्यञ्जनसमुदाययोः परस्परमनेकधा सादृश्यं स. यानियमः । पूर्व व्यञ्जनमोत्राश्रितम् । यथा_ "किं नाम दर्दुर दुरध्यवसाय! सायं.
- कायं निपीड्य निनदं कुरुषे रुषेव । चन्द्रनामनी च । व्यक्तशिशुशुभ्रांशुशीतगुरिति पाठे व्यक्तशिशुधवलांशुत्वविशिष्टः शीतगुः चन्द्रः शेखरत्वेन यस्यास्ति इत्यर्थः, शुभ्रांशुः शीतगुरिति चन्द्रनामनी च । सदापायात् सततमपायतः, सततं पायाच्च । चेतोहरो मनोहरः, हरः शिव इति शिवनामनी च । भुजङ्गकुण्डलीत्यादौ सुबन्तपौनरुक्त्ये सत्यपि सदा पायाद् अव्याद् इति तिङन्तपौनरुक्त्यप्रतिभासात् तिङन्तापेक्षयेत्युक्तम् । अत्रोदाहरणद्वये सर्वत्रैकपदपर्यायपरिवृत्त्यक्षमत्वं, सुबन्तविषये सार्थकपदनिष्ठत्वं, तिङन्तविषये सार्थकनिरर्थकपदनिष्ठत्वं, कन्दर्पदर्पकेत्यत्र भङ्गनिष्ठत्वं च । पदद्वयपर्यायपरिवृत्त्यक्षमत्वादौ यथा
वितरणसमरहितं त्वामरिचक्रविमर्दविहितहेवाकम् । _लब्ध्वा नायकमनघं विभाति यदुवीर ! मेदिनीवलयम् ॥ अत्र रणसमरेत्यरिचक्रेति च पदद्वयपर्यायपरिवृत्त्यक्षमत्वम् । आधे द्वयोरपि नैरर्थक्यं, द्वितीये सार्थकत्वम् । व्यञ्जनमा(मि १ त्रे)ति मात्रशब्देन स्वरसाम्यनियमो व्यावय॑ते, न तु तदभावः प्रतिपाद्यते । अतः सायसायमित्यादौ स्वरसाम्यं न दोषाय । स्वरसाम्यपौनरुक्त्यावचने नासम्भवो हेतुः, किन्त्वनलङ्कारत्वमेवेत्याह-अलङ्कारप्रस्ताव इति ॥
१. 'क्त्यं व्य' ग. पाठः. २. 'माश्रि', ३. 'उदाहरणं- किं', ४. स्त' ख. पाठः- ५. 'र्थप' क. पाठः. ६. 'त्वम् । प' ख. पाठः,