________________
१४
अलङ्कारसूत्रं
[पुनरुक्तवदाभास
लङ्काराणामलङ्कार्यपारतन्त्र्यध्वननार्थः । अर्थपौनरुक्त्या देवार्थाश्रितत्वादर्थालङ्कारोऽयम् । प्रभेदास्तु विस्तरभयान्नोच्यन्ते । उदाहरणं मखीये श्रीकण्ठस्तवे"अहीन भुजगाधीशवपुर्वलय कङ्कणम् । शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकम् ॥ वृषपुङ्गवलक्ष्माणं शिखिपावकलोचनम् । ससर्वमङ्गलं नौमि पार्वतीसेखमीश्वरम् ॥” इत्यादि । एतच्च सुबन्तापेक्षय । तिङन्तापेक्षया यथा तत्रैव“भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुशेखरः । जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः || ”
दयोऽलङ्कारा अलङ्कार्येभ्यः करादिभ्यः पृथग्भूय स्वातन्त्र्येणाप्युपलभ्यन्ते, नैवं काव्यालङ्काराः, अलङ्कार्यौ शब्दार्थावन्तरेण पृथगनुपलब्धेः । अतश्चैषां तत्पारतन्त्र्यम् । तच्च स्वलिङ्गपरिहारेण स्वाश्रयस्य काव्यस्य लिङ्गेन निर्देशादवगम्यते, यथा शुक्लं वस्त्रमिति शौक्ल्यस्य । तदेवमलङ्कार्यपारतन्त्र्यस्यात्र सूचितत्वात् छेकानुप्रासादिषु तदनादरः । अस्यै पुनरुक्तवदाभासस्यान्यैः शब्दालङ्कारत्वमुक्तम् । तदयुक्तमित्याह - अर्थपौनरुक्त्या देवेत्यादि । प्रभेदास्त्विति । सार्थकानर्थकसभङ्गाभङ्गशब्दनिष्ठत्वपदद्वयैकपदपर्यीयपरिवृत्त्यक्षमत्वादयः । अहीनेत्यादि । हीनादन्यः, अहीनामिनश्च । वलयं सन्निवेशविशेषः, करभूषणं च । शैलादि नन्दयितुं शीलवत्, शैलादिर्नन्दी चेति श्रीनन्दिकेश्वरस्य नामनी । दर्पशब्दात् समासान्ते कपि दर्पक इति रूपं, कामपर्यायश्च । पुङ्गवः श्रेष्ठः, पुंस्त्वविशिष्ट ? ष्टो) गौश्च । शिखी प्रशस्तशिखः, अग्निश्च । ससर्वमङ्गलं सर्वमङ्गलैः सहितं, सर्वमङ्गलया सहितं च । कुण्डली कुण्डलवान्, सर्पश्च । व्यक्ताः शशिनः शुभ्रा अंशवः शेखरं यस्य, शशी शुभ्राशुश्चेति १. 'रत्वं ज्ञेयम्', २. 'परमेश्व', ३. 'ति । ए', ४. 'या । य' ख. पाठः. ५. 'त्र' क. पाठः ६. 'कश' ख पाठः • ७. 'नीच । द' क. पाठः •
1