________________
३
प्रकरणम्
सव्याख्यालङ्कारसर्वस्वोपेतम् । कक्ष्याविभागघटनार्थम् । अर्थापेक्षया शब्दस्य प्रतीतावन्त. रङ्गत्वेऽपि प्रथममर्थगतनिर्देशश्चिरन्तनप्रसिद्धया पुनरुक्तवदाभासस्य पूर्व लक्षणार्थः । इह शाब्दे प्रस्थाने । इतिशब्दः प्रकारे । त्रिशब्दादेव सङ्ख्यासमाप्तिसिद्धेः॥
तत्रार्थपौनरुक्त्यं प्ररूढं दोषः ॥२॥
प्ररूढाप्ररूढत्वेन वैविध्यम् । प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थम् । तत्रति त्रयनिर्धारणे । यथावभासनं वि. श्रान्तिः प्ररोहः ॥
आमुखावभासनं पुनरुक्तवदाभासम् ॥३॥
आमुखग्रहणं पर्यवसानान्यथात्वप्रतिपत्त्यर्थम् । लक्ष्यनिर्देशे नापुंसकः संस्कारो लौकिकालङ्कारवैधर्येण काव्याकक्ष्याविभागेति । अर्थपौनरुक्त्ये पुनरुक्तवदाभासः, शब्दपौनरुक्तये छेकानुप्रासादिः, उभयपौनरुक्त्ये लाटानुप्रासः इत्येवंरूपः कक्ष्याविभागः । अर्थापेक्षयेत्यादि । प्रथमप्रतिपन्नस्वरूपेण शब्देनार्थप्रत्ययादन्तरङ्गत्वम् । चिरन्तनप्रसिद्धयेति। उद्भटादिभिः प्रथममलङ्कारेषु पुनरुक्तवदाभासो लक्षितः । शान्द इति । शब्देनार्थव्यवहारलक्षणे ।
__ "इतिहेतुप्रकरणप्रकारादिसमाप्तिषु' इति समाप्त्यर्थत्वेन पठितस्यापीतिशब्दस्य नात्र तदर्थत्वमित्याह - इतिशब्दः प्रकार इति । त्रिशब्दादेवेति । त्रिशब्दस्य न्यूनाधिकसङ्ख्याव्यवच्छेदपरत्वात् ॥
__ अलङ्कारप्रस्तावादप्रस्तुतत्वेऽपि दोषरूपपौनरुक्त्यस्वरूपकथनमन्यार्थमित्याह ----प्रथममित्यादि । यथावभासनमित्यादि । आपातक्त् पर्यवसानवेलायामप्यैकार्थ्यप्रतीतिरित्यर्थः ॥
नापुंसक इति । सोरमादेशलक्षणः । यथा लौकिकाः कटकमुकुटा१, 'हेति शा', २. 'ममुपा', ३. 'य' क. ख. पाठः. ४. 'भिर्हि प्र'
क. पाठः