________________
-
-
-
-
-
-
-
-
अलङ्कारसूत्रं
[ज्योद्धातव्यङ्गयं वाच्याङ्गत्वादिभेदैर्यथासम्भवं समासोक्त्यादौ प्रदशितम् । चित्रं तु शब्दार्थोभयालङ्कारस्वभावतया बहुतरप्रभेदम् । तथाहि
इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः॥ १॥
आदौ पौनरुक्त्यप्रकारवचनं वक्ष्यमाणालङ्काराणां अर्जुनगुणानुरागी रक्षितगोमण्डलो बलज्येष्ठः ।
यदुपतिरभिमतसत्यः शरदयुतं जयति विबुधहितनिरतः ।। अत्र वर्णनीये रविवर्मणि आभिधाया नियन्त्रणात् शब्दशक्तिमूलानुरणनव्यङ्गयेन कृष्णेन सहोपमानोपमेयभावप्रतीतेरुपमालङ्कारो व्यङ्गयः । वस्तुध्वनिर्यथा -
कथयामि वः क्षितीशाः ! रविवर्मणि भजत वैतसीं वृत्तिम् ।
अस्य हि रोषो रोषः प्रसाद एव प्रसादश्च ॥ अत्र कथयामि वः क्षितीशा इति वाक्यरूपेणोपदेशपर्यवसायिनार्थान्तरसङ्क्रमितवाच्येन वक्तु भृत्वं व्यज्यते । उत्तरार्धे रोषो रोषः प्रसाद एव प्रसाद इत्यत्र पदावृत्तिभ्यां साफल्यपर्यवसायि(नी)भ्यामर्थान्तरसङ्क्रमितवाच्याभ्यां वर्णनीयस्यावश्यभजनीयत्वलक्षणं वस्तु व्यज्यते । एवं तावद् ध्वनिकारमतस्यैवानवद्यतां दर्शयित्वा तेनैव ध्वनिगुणीभूतव्यङ्गययोः प्रपञ्चितत्वात् संक्षेपेण तत्प्रकारानुद्दिश्य चित्रकाव्यप्रभेदाम् दर्शयितुमुपक्रमते--चित्रं त्वित्यादिना । तुशब्देन अन्यत्राप्रपञ्चितत्वाद् बहुवक्तव्यत्वाच स्वसंरम्भगोचरतां द्योतयति । शब्दार्थेत्यादि । शब्दार्थोभयालङ्कारभेदादवान्तरभेदाच ।
___ ननु 'गुठलङ्कारसूत्राणामि'त्यनेन सूत्राणामलङ्कारस्वरूपनिरूपणपरत्वं दर्शितम् । तच्च प्रथमसूत्रे न दृश्यते। अत आह-आदावित्यादि । . १. 'वस्तु', २. 'ल', ३. 'रभे' क. ख. पाठः. ४. 'क्यवृत्तिरू' क.
पाठ