________________
प्रकरणम्]
सव्याख्यालङ्कारसर्वस्वोपेतम् चारिताभिधानम् । तदेतत् कुशाग्रीयधिषणक्षोदेनीयमतिगहनमिति नेह प्रतन्यते। अस्ति तावद् व्यङ्ग्यनिष्ठो व्यञ्जनव्यापारः । तत्र व्यङ्गयस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्गयाख्यौ द्वौ काव्यभेदौ । व्यङ्गयस्यास्फुटत्वेन गुणालङ्कारवैत्त्वे तु चित्राख्यस्तृतीयः काव्यभेदः। तत्रोत्तमो ध्वनिः। तस्य लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ द्वौ भेदौ । आद्योऽप्यर्थान्तरसङ्क्रमितवाच्यात्यन्ततिरस्कृतवाच्यत्वेन द्विभेदः । द्वितीयोऽप्यसंलक्ष्यक्रमसंलक्ष्यक्रमव्यङ्ग्यतया द्विविधः। लक्षणामूलः शब्दशक्तिमूलो वस्तुध्वनिः । असंलक्ष्यक्रमव्यङ्गयोऽर्थशक्तिमूलो रसादिध्वनिः । संलक्ष्यक्रमव्यङ्ग्यः शब्दार्थोभयशक्तिमूलो वस्तुध्वनिरलङ्कारध्वनिश्चेति । तत्र रसादिध्वनिः कालिदासादिप्रबन्धेषु । गुणीभूत
शिंशपावृक्षयोरिव न तादात्म्यम् । नापि धूमाग्न्योरिव तदुत्पत्तिलक्षणः कार्यकारणभावः । कुशाग्रीयं कुशाग्रसदृशम् । 'कुशाग्राच्छः' (५.३.१०५) इति छः । व्यङ्गयनिष्ठ इति । व्यङ्गयपर्यवसितः । व्यङ्ग्यं प्रत्युपसर्जनीभूत इत्यर्थः । प्राधान्याप्राधान्याभ्यामिति । वाच्यापेक्षया । तत्रोत्तमो ध्वनिरिति । ध्वनिलक्षणः काव्यभेद उत्तमः । यद्यपि 'तस्य लक्षणे'त्यादिना ध्वनेरेव प्रकारभेदो दर्शितः, तथाप्यस्यार्थान्तरे सङ्क्रमितादिप्रकारवैचित्र्यस्य गुणीभूतव्यङ्गयेऽपि साधारणत्वादुपलक्षणमेतत् । कालिदासादिप्रबन्धेषु शाकुन्तलवेणीसंहारादिषु । प्रबन्धग्रहणं चैकस्मिन् वाक्येऽपेक्षितसकलविभावानुभावव्यभिचार्युपादानस्याशक्यत्वात् कतिपयोपादाने चेतरेषामुन्नेयत्वेने तत्तदवस्थाविशेषविशिष्टानां रसादीनां स्फुटतयानभिव्यक्तेः । अलङ्कारध्वनियथा
१. 'भ', २. 'स्वेऽल', ३. 'पक्षे तु', ४. 'मव्यङ्गयसं' क. पाठः. ५. 'ले', ६. 'स्तुरूपोऽलङ्काररूपो रसरूपश्च । अ' क. ख. पाठ:. ७. 'षु । चि', ८. 'पि तस्या' ख. पाठ.. ९. 'न वि' ग. पाठः.