________________
१०
अलङ्कारसूत्रं
[उपोद्घात
विषय एव व्यङ्गयनामा जीवितत्वेन वक्तव्यः, यस्य गुणालङ्कोरकृतचारुत्वपरिग्रहैसाम्राज्यम् । रसादयस्तु जीवितभूता नालङ्कारत्वेन वाच्याः । अलङ्काराणामुपकारकत्वाद् रसादीनां च प्राधान्येनोपस्कार्यत्वात् । तस्माद् व्यङ्गय एव वाक्यार्थीभूतः काव्यजीवितमिति । एष एव च पक्षो वाक्यार्थविदां सहृदयानामावर्जकः । व्यञ्जनव्यापारस्य सर्वैरनपह्नुतत्वात्, तदाश्रयेण च पक्षान्तरस्याप्रतिष्ठानात् । यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गतया व्यञ्जनस्यानुमानान्तर्भावमाख्यत्, तद् वाच्यस्य प्रतीयमानेन सह तादात्म्यतदुत्पत्त्यभावादवियैकनियतं समग्रभरसहिष्णुत्वं विवृणोति -- यस्य गुणेति । रसादयस्त्विति । अङ्गिभूता इति शेषः । अथवा जीवितभूता इत्यस्यैवायमर्थः । तदा त्वेकवाक्यता । रसादिवदन्यस्यापि व्यङ्गयस्य विशिष्टस्यैव प्राधान्यमिति दर्शयन्नुपसंहरति — तस्माद् व्यङ्गय एवेति । इतिः समाप्तौ । अस्य ध्वनिकारपक्षस्योपपत्तिमत्त्वेन स्वाभिमतत्वं दर्शयति-- एष एव चेत्यादिना । अस्तु व्यञ्जनव्यापारस्यानपह्नवः । ततः किमायातं व्यङ्गयप्राधान्यस्येत्यत आह- तदाश्रयण इति । पक्षान्तरस्य व्यापारादिप्राधान्यवतः । अप्रतिष्ठानं च 'व्यापारस्य विषयमुखेनेत्यादिना पूर्वमेव प्रतिपादितम् । तदनाश्रयण इति पाठे व्यञ्जनव्यापारानङ्गीकारे पर्यायोक्ताद्यलङ्कारानुदयप्रसङ्गेनोद्भटादिमतस्याप्रतिष्ठानादिति पूर्वोक्तानपह्नुतत्वोपपादनमेवार्थः । ननु महिमनि जीवति व्यञ्जनव्यापारस्य कथमनपह्नुतत्वमित्याशङ्कां परिहरति-यत्त्वित्यादिना । तुशब्देनँ शब्दविशेषात्मनः काव्यस्य शब्दव्यतिरिक्तप्रमाणव्यापारगोचरेणार्थेन चमत्कारकारित्वकथनमत्यन्तमसमीचीनमिति दर्शयति । तादात्म्यतदुत्पत्त्यभावादिति । 'भम धम्मिअ' इत्यादौ वाच्यस्य गृहभ्रमणविध्यादेः प्रतीयमानस्य गोदावरीतीरभ्रमण निषेधादेश्च
१. 'कृतिचा', २. 'हंसा', ३. 'णां समु', ४. 'त्वेन र', ५. 'दना (अ) यणे', ६. 'न ता' क. ख. पाठः. ७. 'न वि' ग. पाठः