________________
प्रकरणम् ]
सध्याख्यालङ्कार सर्वस्वोपेतम् ।
व्यापारद्वयोत्तीर्णो रसचर्वणात्मैव भोगापरपर्यायो व्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः । ध्वनिकारः पुनरभिघालक्षणातात्पर्याख्यव्यापारत्रयोत्तीर्णस्य ध्वननद्योतना
व्यञ्जनव्यापारस्यावश्याभ्युपगन्तेव्यत्वाद्
दिशब्दाभिधेयस्य व्यापारस्य च वाक्यार्थत्वाभावाद् वाक्यार्थस्यैव व्यङ्ग्यरूपस्य गुणालङ्कारोपस्कर्तव्यत्वेन प्राधान्याद् विश्रान्तिधमत्वादात्मत्वं सिद्धान्तितवान् । व्यापारस्यै विषयमुखेन स्वरूपप्रतिलम्भात् तत्प्राधान्येन प्राधान्यात् स्वरूपेण विचार्यत्वाभावाद् विषयस्यैव समग्रभरसहिष्णुत्वात् । तस्माद् दर्शयति । तन्मते हि काव्यात्मनः शब्दस्य त्रयो व्यापाराः, अभिधाभावकत्वभोगकृत्त्वैलक्षणाः । तत्राभिधाशब्देन शास्त्र काव्यसाधारणो मुख्यलक्षणादिर्व्यापारोऽभिधीयते । भावकत्वभोगकृत्त्वे काव्यस्य नियते । तयो - र्भावकत्वं नाम विभावादिसाधारणीकरणम् । भोगकृत्त्वं तु ताभ्यामभिधाभावकत्वाभ्यामुत्तीर्णो रसचर्वणात्मकत्वविशिष्टः काव्यव्यापारः । वक्रोक्तिजीवितकार भट्टनायकयोर्द्वयोरपि व्यापारप्राधान्येऽविशिष्टेऽपि पूर्वत्र विशि टाया अभिधाया एव प्राधान्यम्, उत्तरत्रं रसविषयस्य भोगकृत्त्वापरपर्यायस्य व्यञ्जनस्य । ध्वनिकारः पुनरिति । पुनश्शब्देनोद्भादिमतव्याव र्तकेन ध्वनिकारमतस्य युक्तत्वं द्योतयति । अवश्याभ्युपगन्तव्यत्वादिति । व्यञ्जनव्यापारानभ्युपगमेऽर्थान्तरगम्यत्वोपलक्षितानां पर्यायोक्तादीनामनुत्थानात् । इयता व्यञ्जनव्यापारस्यास्तित्वं प्रतिपाद्य व्यङ्ग्यस्थ प्राधान्यमुपपादयति — व्यापारस्य चेत्यादिना । गुणालङ्कारोपस्कर्तव्यत्वेनेत्यनेन गुणालङ्कारयोरप्राधान्यमाह । उपस्कारकं ह्युपस्कार्यं प्रति गुणीभवति । व्यापारस्य विषयमुखेनेत्यादिना व्यञ्जनव्यापारस्याप्राधान्यमुपपाद्य व्यङ्ग्यप्राधान्यमुपसंहरति- तस्मादिति । व्यापारस्याप्राधान्यायोपन्यस्तं विषं१. 'स्वी', २. 'म्यत्वा' क. ख. पाठ:. ३. 'स्थानत्वा', ४. 'स्य च वि', ५. 'त्त्वाख्यल' ग. पाठः, ६. 'त्मत्व' ख. म. पाठ. ७. 'त्र वि' ग. पाठः. 'कमुप' ख• पाठः.
C