________________
अलङ्कारसूत्र
[उपोद्घात
२
उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृते एव । केवलमुक्तिवैचित्र्यजीवितं काव्यं, न व्यङ्ग्यार्थजीवितमिति तदीयं दर्शनं व्यवस्थितम् ।
भट्टनायकेने तु व्यञ्जनव्यापारस्य प्रौढोक्त्याम्युपगतस्य काव्ये सत्त्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपैस्य व्यापारस्यैव प्राधान्यमुक्तम् । तत्राप्यभिधाभावकत्वलक्षण
इति । उपचारवक्रतादिभिरिति । आदिशब्देन विशेषवक्रतादयः परिगृह्यन्ते । उपचारवक्रत्वं नाम यत्रामूर्तस्य वस्तुनः मूर्तद्रव्याभिधायिना शब्देनाभिधानं 'निकारकणिका', 'हस्तापचेयं यश' इति । कणिकाशब्दो मूर्तवस्तुस्तोकाभिधायी स्तोकत्वसामान्येनोपचारादमूर्तस्यापि निकारस्य स्तोकाभिधानपरत्वेन प्रयुक्तस्तद्विह्लादकौरित्वाद् वक्रतां पुष्णाति । हस्तापचेयमित्यत्र मूर्तपुष्पादिसम्भवि संहतत्वसामान्येनोपचारादमूर्तस्यापि यशसो हस्तापचेयमित्यभिधानं वक्रतामावति । एतदुभयमपि लक्षणामूलस्य ध्वनेर्विषयः ।
" सस्मार वारणपतिः परिमीलिताक्षमिच्छाविहारवनवास महोत्सवानाम्"
इत्यत्र परिमीलिताक्षमिति क्रियाविशेषणेन स्मरणसमयभाविसुखानुभवातिशयः प्रतीयते । अत्र पदद्योत्योऽर्थशक्तिमूलो ध्वनिः ।
“ अद्यापि मे वरतनोर्मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति "
इत्यत्र किमपीति संवृतिवक्रर्तया तदाकर्णनजनितायाश्चित्तवृत्तेरनुभवैकगोचरत्वलक्षणमव्यपदेश्यत्वं प्रकाश्यते । अत्रापि पूर्ववद् ध्वनिः ।
1
भट्टनायकेनेत्यादि । प्रौढोत्तत्याभ्युपगतस्येति । प्रौढोक्तिरिति संज्ञया निर्दिष्टस्येत्यर्थः । सत्त्वं सद्भावः । तत्रापीत्यादिना व्यापार प्राधान्येऽपि न सर्वेषां शब्दव्यापाराणां प्राधान्यम् । अपि तु कस्यचिदेवेति
१. 'तमेव' क. ख. पाठः ४. 'पव्या' क. ख. पाठः, ५. ७. ''क. पाठः.
२. 'हम' ग. पाठः, 'र्थमि' ख. पाठः ३. 'नव्या', 'करत्वा' ख. ग. पाठः ६. 'वायास्तदा' ख. पाठः.