________________
प्रकरणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
टादिभिस्तु गुणालङ्काराणां प्रायशः साम्यमेव सूचितम् । विषयमात्रेण भेदप्रतिपादनात् । संघटनाधर्मत्वेन शब्दार्थधर्मत्वेन चेष्टेः । तदेवमलङ्कारा एव काव्ये प्रधानमिति प्राच्यानां मतम् । वक्रोक्तिजीवितकारस्तु वैदग्ध्यभङ्गीभणितिस्वभावां बहुविधां वक्रोक्तिमेव प्राधान्यात् काव्यजीवैमुक्तवान् । व्यापारप्राधान्यं च काव्यस्य प्रतिपेदे |
अभिधाप्रकारविशेषा एवालङ्काराः । सत्यपि च त्रिविधे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचरः । रयोः शोभाहेतुत्वाविशेषाद् भेदाविवक्षया वामनमप्यन्तर्भाव्य प्राच्यानामित्युक्तम् | वैदग्ध्यभङ्गीत्यादि । तदुक्तम् - "उभावेतावलङ्कार्यौ तयोः पुनरलङ्कृतिः । वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते ॥"
ف
इति । उभौ शब्दार्थों । वैदग्ध्यं विदग्धभावः कविकर्म कौशलं, तस्य भङ्गी विच्छित्तिः, तया भणितिः विचित्रैवाभिधा वक्रोक्तिः । अयमर्थः - शब्दार्थौ पृथगवस्थितौ न केनाप्य (व्य १ ) तिरिक्तेनालङ्कारेण योज्येते, किन्तु वक्रतया वैचित्र्ययोगितयाभिधानमात्रमेवानयोरलङ्कारः, तस्यैव शोभातिशयकारित्वादिति । व्यापारप्रधान्यमिति । तदुक्तं
“शब्दार्थौ सहितौ वक्रकविव्यापारशालिनि । बन्धे व्यवस्थितौ काव्यं तद्विदा ढादकारिणि ॥”
इति । वक्रकविव्यापारो नाम शास्त्रादिप्रसिद्धशब्दार्थोपनिबन्धव्यतिरेकवर्णविन्यासवदपूर्वार्थप्रत्ययवाक्यप्रकरणप्रबन्धात्मकः षड्विधविषयवक्रता-. विशिष्टः क्रमः । अभिधेति । तथोक्तं
" वाक्यस्य वक्रभावोऽन्यो भिद्यते यः सहस्रधा । यत्रालङ्कारवर्गोऽयं सर्वोऽप्यन्तर्भविष्यति ॥"
१. 'णा' क. ख. पाठ:. २. 'रः पुनः वै' ग. पाठः. ४. 'व चाल' ग. पाठः.
३. 'वितमु',