________________
[उपोद्धात
अलङ्कारसूत्रं पहुतितुल्ययोगितादावुपमालङ्कारो वाच्योपस्कारित्वेनोक्तः । रसवत्प्रेयऊर्जस्त्रिप्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः । उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता । तदित्थं त्रिविधमपि प्रतीयमानमलङ्कारतयाँ प्रख्यापितमेव ।
वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोक्त्यलङ्कारत्वं ब्रुवता कश्चिद् ध्वनिभेदोऽलङ्कारतयैवोक्तः। केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मत्वेनोक्ता । उद्भअत्र वाच्यो वासनिषेधस्तरुणीलक्षणवक्तृवैशिष्टयवशात् प्रधानतया प्रती यमानाय गृहपतिविदेशगमनादिना नियन्त्रणलभ्यरतिसुखवासाभ्यनुज्ञाल. क्षणाय वस्तुने स्वात्मानमर्पयति । अत्र च स्वमनपेक्ष्यैव विश्रान्तिजुषा स्वं प्रत्युपसर्जनीभवता च वाच्येन व्यञ्जितत्वाद् व्यङ्ग्यं प्रधानम् । रूपकेत्यादि । आदिशब्देन परिणामसहोक्त्यादयो गृह्यन्ते । रसवदित्यादि । प्रभृतिशब्देन समाहितादयः । रसभावादिरिति । आदिशब्देन तदाभासतत्प्रशमादयो गृह्यन्ते । उत्प्रेक्षा त्विति । इवादिप्रयोगशून्ये 'महिळासहस्सभरिए' इत्यादौ । स्वयमेव अलङ्कारान्तरनिरपेक्षम् । त्रिविध मपीति वस्त्वलङ्काररसादिलक्षणम् ।
वामनेन त्वित्यादि । 'सादृश्याल्लक्षणा वक्रोक्तिरि'ति वक्रोक्ति लक्षयित्वा “उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्ताद्" इत्युदाहृत्य अत्र नेत्रधर्मावुन्मील(न)निमीलने सादृश्याद् विकाससङ्कोचौ लक्षयत इत्युक्तम् । सादृश्यं च तत्रावयवविश्लेषसंश्लेषलक्षणम् । कश्चिदिति । अविवक्षितवाच्याख्यः । केवलमित्यादिना वामनस्योद्भटादिभिः प्रतीयमानस्यालङ्कारतया कथनादि सर्वं समानम् , इयांस्तु विशेष इति दर्शयति । काव्यात्मत्वेनेति । 'रीतिरात्मा काव्यस्य, विशिष्र्टी पदरचना रीतिः, विशेषो गुणात्मा' इति वदता गुणप्राधान्यमुक्तं भवति । संघटना रचना । अलङ्कारा एवेत्येवकारेण व्यापारादि व्यवच्छिनत्ति । गुणालङ्का
१. 'रकत्वे', २. 'देवं त्रि', ३. 'या ख्या', क. ख. पाठ. ४. 'ट' ख. पाठ:.