________________
सभ्याख्यालङ्कारसर्वस्वोपेतम् ।
रुद्रटेनापि भावालङ्कारो द्विधैवोक्तः । रूपकदीपका
प्रकरणम् ]
तयाविवक्षितं प्रहस्तवधात्मने प्रस्तुताय स्वात्मानमर्पयति । आक्षेपे 'बाळअ णाहं दूई' इत्यादौ दूत्याः सत्या दूतीत्वनिषेधो बाधितस्वरूपत्वादविवक्षितो विवक्षितसत्यवादित्वादिकं विशेषं गमयति । व्याजस्तुतौ 'हे हेलाजि - ते'त्यादौ जलधेरनुपजीव्यतयोद्विग्न तत्स्तुतिः क्रियमाणा पूर्ववदेवाविवक्षितत्वाद् विपरीतलक्षणया विवक्षितां निन्दामभिव्यनक्ति । अनन्वये 'युद्धेऽर्जुनोऽर्जुन इवे' त्यादावेकस्यैवोपमानत्वमुपमेयत्वं च विरुद्धत्वादविवक्षितं सदर्जुनादेरुपमानवैधुर्यलक्षणमुत्कर्षं प्रत्याययति । आदिग्रहणाद् विशेषोक्तौ 'आहूतोऽपी' त्यादावाह्नानादिषु सङ्कोचशिथिलीकारहेतुषु समग्रेष्वपि तदनुत्पत्तिरनुपपद्यमानोपपादकतया प्रियतमास्वप्नसमागमादिकारणमाक्षिपति ।
रुद्रटेनाप्यलङ्कारतया प्रतीयमानं वस्तु स्वीकृतमिति दर्शयतिरुद्रटेनेत्यादिना । भावो नाम वास्तवालङ्कारेषु कश्चिद् विशेषः । तस्य च, द्विधा लक्षणं तेन प्रणीतं
“यस्य विकारः प्रभवन्नप्रतिबन्धेन हेतुना येन । गमयति तमभिप्रायं तत्प्रतिबन्धं च भावोऽसौ || अभिधेयमभिदधानं तदेव तदसदृशसकलगुणदोषम् । अर्थान्तरमवगमयति यद्वाक्यं सोऽपरो भावः ॥ इति । आद्यस्योदाहरणं
"ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥" अत्र हि तरुण्या मुखच्छायामालिन्यमुत्पद्यमानं स्वनिमित्ततया सङ्केतभ्रंशजनितं विषादलक्षणं वस्त्वाक्षिपति । तच स्वप्रतीत्या विना वाच्यस्य विश्रान्त्यभावात् तत्सिद्ध्यङ्गतया वाच्यं प्रति गुणीभवति । यद्वा प्रतीयमांनमसुन्दरतयानुरागव्यञ्जकतया सौन्दर्यशालि वाच्यं प्रति गुणीभवति । द्वितीयस्योदाहरणम् –
-
-
५
" एकाकिनी यदबला तरुणी तथाहमस्मिन् गृहे गृहपतिश्च गतो विदेशम् । कं याचसे त्वमिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ! ॥”
"