________________
अलङ्कारसूत्रं
[उपोद्धातमन्यन्ते । तथाहि- पर्यायोक्ताप्रस्तुतप्रशंसासमासोक्तयाक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन “स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम्” इति यथायोगं द्विविधया भझ्या प्रतिपादितं तैः । व्यङ्गयमुखेन वेति त्रयः पक्षाः । आद्येऽप्यलङ्कारतो गुणतो वेति द्वैविध्यम् । द्वितीयेऽपि भणितिवैचित्र्येण भोगकृत्त्वेन वेति द्वैधम् । इति पञ्चसु पक्षेष्वाद्य उद्भटादिभिरङ्गीकृतः, द्वितीयो वामनेन, तृतीयो वक्रोक्तिजीवितकारेण, चतुर्थो भट्टनायकेन, पञ्चम आनन्दवर्धनेन । व्यक्तिविवेककाराभिमतस्त्वनुमानपक्षः सिद्धान्तप्रदर्शनसमनन्तरं विचारासहत्वेन दूषितत्वाद् मख़ुकस्य पूर्वपक्षत्वेनाप्यनभिमत इत्याहुः । एषु प्रस्थानेषु स्वाभिमतं प्रस्थानं तस्य सर्वैरङ्गीकरणीयतां च दर्शयितुमेषामुपन्यासः । इह काव्य. विषये । हिशब्दचिरन्तनशब्दाभ्यामस्यार्थस्यानादिप्रसिद्धत्वं दर्शयति । तावच्छब्द उपक्रमे । वाच्योपस्कारितयेति । वाच्यस्योपस्कारो नाम सौन्दयांधानम् अनुपपत्तिनिरासो वा । अनुपपत्तिनिरासश्चोपपादनेन वा उपपन्ने स्वस्मिस्तात्पर्यापादनेन वा । मन्यन्त इत्यनेनाभिमानिक एवालङ्कारपक्षे निक्षेपः, न तु वास्तवः, सर्वस्यापि प्रतीयमानस्य निक्षेप्नुमशक्यत्वादिति दर्शयति । यथायोगमिति । यत्र वाच्यं वर्णनीयतया विवक्षितं सदन्यथानुपपद्यमानमुपपादकतया स्वस्य शोभातिशयजनकतया वा परमाक्षिपति, तत्र पर्यायोक्तसमासोक्त्युपमेयोपमासु स्वसिद्धये पराक्षेपः । यत्र पुनरप्राकरणिकत्वादविवक्षितं सत् प्राकरणिकाय परस्मै स्वात्मानमर्पयति, तत्राप्रस्तुतप्रशंसाक्षेपव्याजस्तुत्यनन्वयेषु परार्थं स्वसमर्पणम् । तथाहि - पर्यायोक्ते तावत् 'स्पृष्टास्ता नन्दने शच्या' इत्यादौ सैनिककर्तृकं मञ्जरीस्पर्शनं हयग्रीवप्रभावातिशयप्रतिपादकतया वर्णनीयं स्वसिद्धये तत्कर्तृकस्वर्गविजयलक्षणं कारणमाक्षिपति, समासोक्तौ 'उपोढरागेणे'त्यादौ प्राकरणिको निशाशशिवृत्तान्तः स्वशोभाजनकतया नायकवृत्तान्तम् , उपमेयोपमायां ‘खमिव जलं जलमिव खमि'त्यादौ खादीनां जलादीनां चाभिधीयमानमन्योन्यसादृश्यं पुनरुक्ततयानुपपद्यमानमुपपादकतयोपमानान्तरव्युदासम् । अप्रस्तुतप्रशंसायां 'तण्णत्थी'त्यादौ सर्वेषां कालवशंवदत्वमप्रस्तुत
१. 'यः प्रायः प' ख. ग, पाठः. २. 'त' क. पाठः. ३. 'च्याप' ख. पाठः.