________________
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
9
इह हि तावद् भामहोद्भटप्रभृतयेश्चिरन्तनालङ्कार
३
काराः प्रतीयमानमर्थं वाच्योपस्कारितयालङ्कारपक्षनिक्षिप्तं स्पुरसोर्गत्योः' (८.३. ४० ) इति सकारः । परां सूक्ष्माम् । सा हि शब्द - ह्मणश्चतसृष्ववस्थास्वनाद्यविद्यावासनोपप्लवमानशब्दार्थावबोधरहितपरब्रह्मशब्दवाच्या । तदुक्तं – “स्वरूपं ज्योतिरेवान्तः सूक्ष्मा वागनपायिनी " इति । विग्रहशब्देन पश्यन्त्यादयस्तिस्रोऽवस्था अवच्छेदकत्वसाधर्म्यादुपचारादुच्यन्ते । तासां च स्वरूपमुक्तम्
"अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा | केवलं बुद्ध्यपादाना क्रमरूपानुकारिणी ।। प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते । स्थानेषु विकृते वायौ कृतवर्णपरिग्रहा || वैखरी वाक् प्रयोक्तृणां प्राणवृत्तिनिबन्धना । " इति । गुर्वित्यनेन विवक्षितस्य तात्पर्यस्यावश्यवक्तव्यतां दर्शयति । अलङ्कारसूत्रेत्यनेनालङ्काराणां यथावदवबोधः प्रयोजनं स चालङ्कारशब्दस्य काव्यगतशोभातिशयहेतुभूतधर्मवाचकतया तादृशधर्मविशिष्टकाव्यनिर्माणज्ञानौपयिकतया यशःप्रभृतिप्रसावक इत्याह । वृत्त्या अनवगतपदार्थविवरणेन । एवं काव्यगताः पुनरुक्तवदाभासादयोऽलङ्कारा विषयः, तज्ज्ञानं च प्रयोजनं, प्रतिपाद्यप्रतिपादकभावः सम्बन्ध इत्युक्तं भवति । अत्र सूक्ष्माया वाचः पराशब्देनोत्कर्षवाचिना प्रतियोगिविशेषाग्रहण सहकृतेन सर्वप्रतियोगिक उत्कर्षः प्रकाश्यते । तेन च विघ्नप्रोत्सारणसामर्थ्यातिशययोगादस्या एव प्रथम नमस्कार्यत्वमिति देवतान्तरेभ्यो व्यतिरेक इति पूर्वार्धेन वाग्विषयरतिलक्षणं भावं सर्वोत्कर्षलक्षणं वस्तु व्यतिरेकालङ्कारं च दर्शयंस्त्रिविधस्यापि ध्वनेः स्वाभिमतत्वं सूचयित्वालङ्कारसूत्रविवरणं पुनस्तेषामतिगहार्थता क्रियत इत्युत्तरार्धेन सूचयति ।
इत्थं सूचितमर्थमिहेत्यादिना प्रकरणेन वितत्य प्रतिपादयति । इह विशिष्टौ शब्दार्थौ काव्यम् । तयोश्च वैशिष्ट्यं धर्ममुखेन व्यापारमुखेन ३. 'र' क. पाठः- ४.
प्रकरणम् ]
१. 'हि भा', २. ' यस्तावच्चिर' क. ख. पाठः. 'धोतयं' ख. ग. पाठः.