________________
अलङ्कारसूत्रं
[उपोद्घात
वीरेण वाग्ग्मिना येन वदान्येन वसुन्धरा । वासवं वचसामीशं पारिजातं च लम्भिता॥ न परं धन्वना शून्याः पाणयः पृथिवीभुजाम् । अपि कृत्स्ना मही यस्मिन्नवत्यतुलविक्रमे ॥ विद्यास्थानैः समं तस्य विष्टपानि चतुर्दश । प्रसाधितवतः पार्था सुधियो जातु नात्यजन् । कदाचिन्म कोपज्ञं काव्यालङ्कारलक्षणम् । प्रदर्श्य रविवर्माणं प्रार्थयन्त विपश्चितः ।। गम्भीरं नस्तितीप्रूणां मधुकग्रन्थसागरम् । नौरस्तु भवतः प्रज्ञा स्थेयसी यदुनन्दन! ।। व्याचक्ष्व तमिमं ग्रन्थं व्यावृत्तवचनक्रमः । शास्त्रसाहित्यपाथोधिपारावारीणया धिया । इति तैः प्रार्थितः प्राज्ञैः पार्थिवस्तानभाषत । दन्तार्चिरुद्गमव्याजव्यक्तवैशद्यया गिरा ॥ मयासाध्यमभीष्टं वो ग्रन्थः पुनरयं महान् । व्याख्यातुं शक्यमासाद्य भवतां यद्यनुग्रहम् ॥ व्याख्येयं माननीया स्यात् सद्भिराद्रियते यदि । शम्भोः परिग्रहादेव श्लाघ्या चान्द्रमसी कला ॥ इत्युक्त्वैष मनीषावैभवपरिभूतवासवाचार्यः । बुधपरिषदलङ्कारो व्याख्यदलङ्कारसर्वस्वम् ॥ अवधृत्यै यदुपतिना विवृतस्य गरीयसस्तदर्थस्य । कश्चिद् व्यधित विपश्चिच्छब्दनिबन्धं समुद्रवन्धाख्यः ।
औरिप्सितस्य ग्रन्थस्याविनपरिसमाप्त्यर्थं सदाचारानुमितस्मृतिमूलभूतश्रुत्यवगतया कर्तव्यतया कृतं प्रकृताभिमतदेवतानमस्कारं शिष्यप्रबोधनायं ग्रन्थे निवेशयन् श्रोतृप्रवृत्त्यर्थं विषयसम्बन्धप्रयोजनान्याहनमस्कृत्येत्यादिना । नमस्कृत्येत्यत्र गतिसमासत्वाल्ल्यबादेशः । ‘नम
. 'प्रा' ग. पाठः,