________________
अलङ्कारसूत्रं श्रीमख़ुकप्रणीतया अलङ्कारसर्वस्वाख्यया वृत्त्या समुद्रबन्धविरचितव्याख्यासनाथया समेतम् ।
नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहाम् । गुर्वलङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यते ॥ प्रपन्नमानसाम्भोजप्रबोधनपरः क्रियात् । विघ्नान्धकारविध्वंसं विनायकविभाकरः ॥ केरलेष्वस्ति नगरी कोलम्ब इति विश्रुता । अधिश्रिया ययावाची हरिदप्यलकावती ॥ अयोध्यामपि यां सन्तो राघवान्वयवर्जिताम् । अगोचरं भुजङ्गानामाहुर्भोगवतीमपि ॥ प्राप्तकल्पद्रुमच्छायैः सुमनोभिः कृतास्पदा । अवतीर्णेव मेदिन्यां या चकास्त्यमरावती ।। विभूषयन् पुरीमेनां यदुवंशविभूषणम् । रविवर्मेति विख्यातो राजा शास्ति वसुन्धराम् ।। यस्मादन्यः पदं नास्ति कलावद्राजशब्दयोः । तदन्ववायकूटस्थमन्तरेण निशाकरम् ॥ विवर्णारिवधूवक्त्रव्याख्यातभुजविक्रमे ।
पत्यौ यस्मिन्नभूदुर्वी वीरपत्नीपदास्पदम् ।। . १. 'निजाल' क. ख. पाठः, २. 'कृता दिंगल' ग. पाठः. ३. 'ण', ४. 'न्यास्पदं' ख. पाठः. G, P. T. 1690. 500. 3-6-100. B