________________
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
एभिस्तत्परिरम्भनिर्भरर्भरैरङ्गैः कथं स्थीयतां
कष्टं तद्विरहेण सम्प्रति वयं कृच्छ्रामवस्थां गताः ॥”
अत्र चिन्ताख्यो व्यभिचारिभावः । एष एव च भावालङ्कारः । भावस्य चात्र स्थितिरूपतया वर्तनम् । शान्त्युदया
२
૪
स्थे तु वक्ष्येते । ऊर्जस्वी यथा "दूराकर्षणमोहमन्त्र इव मे तन्नानि याते श्रुति
चेतः कालकलामपि प्रकुरुते नावस्थितिं तां विना । एतैराकुलितस्य विक्षतरतेरङ्गैरनङ्गाकुलैः
सम्पद्येत कथं तदाप्तिसुखमित्येतन्न वेद्मि स्फुटम् ॥” अत्र रावणस्याभिलाषशृङ्गार औत्सुक्यं च व्यभिचारिभा वोऽनौचित्येन प्रवृत्तौ । समाहितं यथा
"अक्ष्णोः स्फुटाश्रुकलुषोऽरुणिमा विलीनः शान्तं च सार्धमधरस्फुरणं भ्रुकुट्या । भावान्तरस्य तव चण्डि ! गतोऽपि रोषो नोद्गाढवासनतया प्रसरं ददाति ॥"
निरूपणम् ]
२११
―――
ग्रन्थविस्तरभयात् । एष एवेत्यादि । प्रेयोलङ्कारस्यैव भावालङ्कार इति संज्ञान्तरमित्यर्थः । शान्त्युदयवत् स्थितेरप्यलङ्कारत्वेनाकथनं नासंभवाद्, अपि तु उक्तप्रेयोरूपत्वादेवेत्याह- - भावस्य चात्रेत्यादि । अत्र प्रेयसि। वक्ष्येते इति । समाहिते शान्त्यवस्था । भावोदये उदयावस्था । अत्र रावणस्येति । पूर्वार्धे आभिलाषिकेशृङ्गारस्य प्रतीतिः, उत्तरार्धे औत्सुक्यस्येत्येवरूपौ रसव्यभिचारिणौ परदारविषयत्वेन शास्त्रविरुद्धत्वाद
१. 'त' क. ख. पाठः, २० 'र्ण', ३ 'स्था', ४. 'क्ष्य' ख. ग. पाठः. ५. 'होमम' क., ‘मन्त्रमोह इ' ख. पाठः ६. 'ते', ७. 'वीक्षिततरैर', ८. 'च रसव्य', S. 'त्यप्र' क. ख. पाठः. १०. 'योलङ्कारवत्त्वादे' ख. ग. पाठः. ११. 'का' ख., 'त' क. पाठः,