________________
२१०
अलङ्कारसूत्र
[ रसवत्. प्रेय ऊर्जस्वि समाहित
" किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद् दर्शनं केयं निष्करुण ! प्रवासरुचिता केनासि दूरीकृतः । स्वप्नान्तेष्विति ते वदन् प्रियर्तमव्यासक्तकण्ठग्रहो
२
1
बुद्ध्वा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः ॥" एतन्मतयेऽप्युदाहरणम् । तत्र वाक्यार्थीभूतोऽत्र करुणो रसः । अङ्गभूतस्तु विप्रलम्भशृङ्गारः । एवं रसान्तरेषूदाहायम् । प्रेयोलङ्कारादौ विशेषमनपेक्ष्योदाह्रियते । " गाढालिङ्गनवामनीकृतकुचप्रोद्भुतरोमोद्गमा सान्द्रस्नेहरसातिरेक विगलच्छ्रीमन्नितम्बाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु [ किम् ॥”
अत्र नायिकाया हर्षाख्यो व्यभिचारिभावः । यथा वा "तद्वामृतपानदुर्ललितया दृष्टया के विश्रम्यतां
तद्वाक्यश्रवणाभियोगपरयोः श्राव्यं कुतः श्रोत्रयोः । "अयं स रशनोत्कर्षी पीनस्तन विमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥"
इत्यादौ रसवदाद्यलङ्कार इति त्रितयस्वीकरणमपि संगतमेवेत्याहुः । मतsiति । पूर्वस्मिन् मते करुणापेक्षयोत्तरत्र विप्रलम्भशृङ्गारापेक्षया रसवदलङ्कारः । एवं रसान्तरेष्विति । सम्भोगशृङ्गारे वीररसादौ च । प्रेयोलङ्कारादावित्यादिशब्देन ऊर्जस्विसमाहिते गृह्येते । विशेषम् अङ्गाङ्गिभावलक्षणम् । उदाहरणद्वयोपादानं स्त्रीपुंसयोराश्रययो रङ्गिनोः सम्भो गविप्रलम्भयोवी भेदात् । परिशिष्टानां रत्यादिभावानामुदाहरणाप्रदर्शनं
1
१. 'सखव्या', २. 'ते । तत्र प्रयोगो यथा गा', ३. 'निरो' क. ख. पठः, ४, 'या रस' ख. ग. पाट:.
ककक