________________
निरूपणम् ] सध्याख्यालङ्कारसर्वस्वोपेतम् ।
२०९ रसवत् । प्रियतरं प्रेयो निबन्धनमेवें । एवमू| बलं विद्यते यत्र, तदपि निबन्धनमेव । अनौचित्यप्रवृत्तत्वाञ्च तत्र बलयोगः । समाहितः परिहारः । स च प्रकृतत्वादुक्तभेदविषयः प्रशमपर्यायः । तत्र यस्मिन् दर्शने वाक्यार्थीभूता रसादयो रसवदाद्यलङ्काराः, तत्राङ्गभूतरसादिविषये द्वितीय उदात्तालङ्कारः। यन्मते त्वङ्गभूतरसादिविषये रसवदाद्यलङ्काराः, अन्यत्र रसादिध्वनिना व्याप्तत्वात् तत्र द्वितीयोदात्तालङ्कारस्य विषयो नावशिष्यते, तद्विषयस्य रसवदादिना व्याप्तत्वात्, तत्र रसवत उदाहरणम् । तया रसादिनिबन्धनक्रियाधिकरणभूतकाव्याभिधायीत्याह । काव्याभिधानपरे हि रसवदादिशब्देन रसवदलङ्कार इत्यादिनिर्देशो न घटते । प्रियतरमित्यादि । लोके हि यत्र चित्तस्यात्यासङ्गः, तत् प्रियतरमुच्यते । प्रियतरशब्दो मुख्यया वृत्त्या रत्यालम्बनेषु देवतादिषु वर्तमानो लक्षणया रतौ वर्तते, तत॑श्च रतिसहचरितं भावकदम्बकं छत्रिन्यायेन लक्षयंस्तथाविधभावकदम्बकविषये निबन्धने उपचारेण वर्तत इति निबन्धनस्य प्रेयस्त्वम् । ऊर्जा बलमित्यादि । ऊर्जस्विशब्दस्य 'ज्योत्स्नातमिस्रा-' (५.२.११४) इत्यादिना मत्वर्थे निपातितत्वात् । परिहार इत्यनेन भावे निष्ठान्तः समाहितशब्द इत्याह । तत्र यस्मिन्नित्यादिना रसादिध्वनद्धितीयोदात्तालङ्कारस्य च रसवदादेश्च त्रयाणामपि स्वीकरणं न संगच्छत इत्याह । यस्मिन् दर्शने उद्भटादिमते । द्वितीय इति । अङ्गभूतमहापुरुषचरितवर्णनलक्षणः । तस्य हि वस्त्वन्तरं प्रत्यङ्गभूता महापुरुषाश्रया उत्साहरत्यादिप्रकर्षात्मानो वीरशुङ्गारादयो विषयः । यन्मते आनन्दवर्धनादिमते । अन्यत्र वाक्यार्थीभूतरसादिविषये । अन्ये तु- अन्यस्मिन्नपि मते रसायाश्रयाणां महतामुपलक्षणभावेनाङ्गभाव उदात्तस्य विषयः । यथा 'तदिदमरण्यमि'त्यादौ । यत्र तु रसादीनामेव प्रकारान्तरेणाङ्गभावः, तत्र .
१. 'व द्रष्टव्यम् । ऊर्जा' ख. ग. पाठः. २. 'कवि' क. ख. पाठः. ३. 'षु वर्त' ख. पाठः. ४. 'तो र' ग. पाठ:. ५. 'र्जस्वल' ख. पाठः.
___cc