________________
२०८
अलङ्कारसूत्रं
अत्रारण्ये वर्णनीये रामचरितमङ्गत्वेन वर्णितम् ॥
[ रसवत्प्रेयऊर्जस्विसमाहित
रसभावतदाभासतत्प्रशमानां निबन्धे रसवत्प्रेयऊर्जस्विसमाहितानि ॥ ८२ ॥
उदात्ते महापुरुषचरितस्य चित्तवृत्तिरूपत्वाच्चित्तवृत्तिविशेषस्वभावत्वाच्च रसादीनामिह तदलङ्काराणां प्रस्तावः । अतएव चत्वारोऽलङ्कारा युगपलक्षिताः । तत्र विभावानुभावव्यभिचारिभिः प्रकाशितो रत्यादिश्चित्तवृत्तिविशेषो रसः । भावो विभावानुभावाभ्यां सूचितो निर्वेदादिस्त्रयस्त्रिंशद्भेदः । देवतादिविषया च रतिः । तदाभासो रसाभासो भावाभासश्च । आभासत्वमविषयप्रवृत्त्यानौचित्यात् । तत्प्रशम उक्तप्रकाराणां निवर्तमानत्वेन प्रशाम्यदवस्था । तत्रे रसस्य परं विश्रान्तिरूपत्वात् सा न सम्भवतीति परिशिष्टभेदविषयोऽयं द्रष्टव्यः । एषामुपनिबन्धे क्रमेण रसवदादयोलङ्काराः । रसो विद्यते यत्र निबन्धने व्यापारात्मनि तद् चरिते रावणवधादौ सेतुबन्धादिवत् किं तर्ह्यन्यस्मिन् वस्तुनीत्याह-अङ्गीभूतेत्यादि । अङ्गिशब्दाच्च्चिः । अङ्गत्वेन वर्णितमिति । उपलक्षणत्वेन निर्दिष्टत्वात् ॥
"
चित्तवृत्तिरूपत्वादिति । महापुरुष चैरितस्योत्साहादिरूपत्वात् । तद्वदलङ्काराः रसादिमदलङ्काराः । अत एव चित्तवृत्तिविशेषस्वभावरसादिरूपत्वादेव । देवतादीत्यादिशब्देन नृपगुरुपुत्रादयो गृह्यन्ते । कान्तालम्बनायास्तु रतेर्व्यक्तत्वे शृङ्गारतैव । अनौचित्यादिति । कामक्रोधादिकारणवशाच्छास्त्रविरुद्धेन रूपेणोपनिबन्धादविषयवृत्तत्वेनानौचित्यम् । सा प्रशाम्यदवस्था । परिशिष्टेति । भावादिविषयः । अयं तत्प्रशमो द्रष्टव्यः । व्यापारात्मनीत्यनेन सूत्रे निबन्धशब्दो भावसाधनः, न त्वधिकरणसाधन
१. 'तद', २. 'त्रापि र' क. ख. पाठः ३. 'शब्दस्यो' ख. ग. पाठः,